________________
(४)
द्रविडदेशसनिहितस्य मदुरा (दक्षिणमथुरा) याः समीपस्थप्रदेशानां पाण्ज्यदेश इति नाम आसीत् । कविस्थितिसमये तत्रत्यः पांड्यमहेश्वरो नृपो बभूव । अयं सुंदरपांड्य (प्रथम) स्योत्तराधिकारी स्यात् । तस्य राज्यकालः १३०७ वि. संवत्सरात्प्रारंभो भवति । एनं कविः राजाधिराज-नानाकलांबुनिधीति लिखितवान् । अयं कवेर्महदादरश्चकार ।
कर्णाटककविचरितस्य का हस्तिमल्लकविसमयः ई. सन् १२९० अर्थात् १३४७ विक्रमाब्दो निश्चितः । अयमेव च सम्यक् प्रतीयते, यत अय्यपार्येन स्वीयजिनेन्द्रकल्याणाभ्युदयग्रंथः १३७६ विक्रमाब्दे समाप्तिं नीतः, तस्मिंश्च हस्तिमलस्योल्लेखः कृतः । स चोल्लेख एतादृशो येन हस्तिमलस्तत्समकालीनः तस्य कविना समं साक्षात्परिचयो वा प्रतीयेत । __ हस्तिमल्लो गृहस्थ आसीत् न गृहत्यागी, एतत्कथनस्योल्लेखो नेमिचंद्रकृतप्रतिष्ठातिलकस्यास्मिन् श्लोके कृतः
परवादिहस्तिनां सिंहो हस्तिमलस्तदुद्भवः । गृहाश्रमी बभूवार्हच्छासनादिप्रभावकः ॥ १३ ॥ हस्तिमलो महान् प्रसिद्धकविः प्रतीयते । तस्य प्रतिभा परं तन्नाटकेभ्य अनुमीयते अधुनापर्यंत तस्य केवलं नाटकग्रंथा एव उपलब्धाः , तेष्वयमेकः प्रकाश्यते । द्वितीयो मैथिलीकल्याणरूपकग्रंथः त्वरया प्रकाशयिष्यते । तृतीयः सुभद्राहरणः चतुर्थोऽजनापवनंजयश्चापि उपलब्धा आसन् , ययोः प्रकाशने प्रयत्नो विधास्यते। हस्तिमल्लस्यैक आदिपुराणः पुरुचरितं वा नाम ग्रंथो श्रीदौलिशास्त्रिणां सरस्वतीभवने वर्तते यस्मिन्नेकसहस्रानुमिताः श्लोकाः संति; परं स अस्मदृष्टिपथे नायातः।
देवचंद्रकविः स्वीय ‘राजावलीकथायां' हस्तिमल्लमुभयभाषाकविचक्रवर्तीति लिखितवान् । अनेन प्रतीयते यत्स संस्कृतं विहाय कनड़ीभाषायाश्च कविरासीत् एतद्भाषायां चापि तेन रचना विहिता स्यात् । कृतं पल्लवितेनेति शम् । * हीराबाग, बम्बई )
निवेदक:माघशुक्ला पूर्णिमा संवत् १९७२ वि. )
मनोहरलाल शास्त्री, ___ * श्रीयुत नाथूरामप्रेमी-जैनहितैषि सम्पादकेन हिन्दीभाषायाँ लिखितस्य लेखस्यानुवादो ऽयम्।