________________
( ३ )
साराश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेः गणरत्नमहोदधिकर्तुश्च नामसाम्यं विहाय नान्यः कोपि संबंधः । अस्मिंश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि । हस्तिमो महान् प्रख्यातकविः प्रतीयते । तस्य विरुदावल्याः प्रशंसासूचकपदेभ्य एतत्सूचितं भवति । ग्रंथेस्मिन् स स्वं सरस्वतीस्वयंवरवल्लभ, महाकवितलजेति निरूपितवान् । मैथिलीकल्याणस्यांते स स्वीयं नाम ' सूक्तिरत्नकरेति प्रथयामास । तस्याग्रजेन सत्यवाक्येन स ' कवितासाम्राज्यलक्ष्मीपतिः' इति कथयित्वा संबोधितः ।
अनेन प्रतीयते हस्तिमल्ल इति कवेरिदं वास्तविकनामधेयं नास्ति | किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं । अस्मिन् विषये अय्येपार्यनामकविदुषा विरचिते जिनेंद्र कल्याणाभ्युदयनानि ग्रंथे श्लोको दत्तः
सम्यक्त्वं सुपरीक्षितुं मद्गजे मुक्ते सरण्यापुरे चास्मिन् पाण्ड्यमहीश्वरेण कपटाद्धंतु स्वमभ्यागते । शैलूषं जिनमुद्धारिणमपास्यासौ मदध्वंसिना श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः ॥ १६ ॥ अनेन प्रतीयते यत् हस्तिमल्लेन हंतुमागतस्य मदमत्तहस्तिनो मदो दूरीकृतः कश्चिज्जिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदीकृतः । अतस्तस्य नाम मदेभमल्लो हस्तिमो वा प्रथितं ।
एतन्नाटकस्य प्रथमांकेपि श्लोको वर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तकपांड्यनरेश्वरद्वारा सत्कारप्राप्तेरुल्लेखोस्ति
श्रीवत्स गोत्रजनभूषण गोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलां बुनिधिपांड्यमहेश्वरेण
श्लोकैः शतैस्सदसि सत्कृतवान् बभूव ॥ ४० ॥
उपर्युक्तश्लोकद्वयेनांजनापवनंजयस्य निम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् हस्तिमल्लः पांड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां च स्वबन्धुभिः सह निवासं चकारश्रीमत्पाण्ड्य महीश्वरे निजभुजांडावलंबीकृते कर्णाटावनमंडलं पदनताने कावनीशेऽवति । तत्प्रीत्यानुसरन्स्वबंधुविव है र्विद्वद्भिरा तैस्समं जैनागारसमेत संतरन मे (?) श्रीहस्तिमल्लोऽवसत् ॥
१ अय्यपार्येण १३७६ विक्रमसंवत्सरे जिनेंद्र कल्याणाभ्युदयस्य रचना कृता