________________
(२)
कवयो विद्वांसश्च बभूवुः । हस्तिमल्लेन स्वीय-मैथिलीकल्याणनाटकस्य प्रस्तावनायक निजाग्रजः सत्यवाक्यः ' श्रीमतीकल्याण' प्रभृतिग्रंथानां कर्ता प्ररूपितः परं तु सत्य. वाक्यस्येदानींतनपर्यंत कोपि ग्रंथो नोपलब्धः । एतेषु कुमारकविनिर्मित आत्म प्रबोधाख्यो लघुग्रंथो ईडराख्यपुरस्य सरस्वतीभवने अस्ति । स हास्तमलभ्रातृ. श्रीकुमारस्यैव वान्यस्य कस्यापीति न प्रतीयते।। ___ 'राजावली' कथातः ज्ञायते यत् हस्तिमल्लस्य पार्श्वपंडितादयः पुत्रा आसन् लोकपालार्याख्य एकः शिष्यश्च । अवश्यमेव तेपि विद्वांसः कवयश्च भविष्यंति किंतु तेषां विषये नाद्यापि पर्यन्तं किञ्चिद् ज्ञातम् ।
हस्तिमल्लकवेरनुजस्य वर्धमानकवेर्विषये जनानामयं विश्वासोस्ति यत्स गणरत्नमहोदधिनामकव्याकरणविषयग्रंथस्य कर्त्ता परमय भ्रमः । ततो गणरत्नकर्ता विक्रमसंवत् ११९७ अनुमिते अर्थात् हस्तिमल्लसमयात् सार्धशतवर्षपूर्वमासीत् । किंच स गोविंदसूरेः शिष्य आसीत् अयं च गोविंदभट्टस्य सूनुः । अन्यच्च स साधुरयं च गृहस्थः । अपरं च स श्वेतांवाराम्नायी प्रतीयते अयं तु दिगंबरसंप्रदायानुगोस्ति ।
गणरत्नमहादधिकर्ता श्वेतांबर आसीत् । अस्मिन् विषयेऽनेकानि प्रमाणानि संति । पूर्व तु तेन स्वकीयग्रंथ यत् शतश उदाहरणानि दत्तानि तानि सर्वाणि अजैनानां श्वेत्तांबरग्रंथकर्तृणामेव, दिगंबराणामेकमपि न दत्तं । द्वितीयं पूर्वोक्तोदाहरणेषु द्वौ श्लोकावेतादृशौ ययोः श्वेतांबराणां प्रशंसा दिगंबराणां च निंदा कृतासीत् । यथा वीराचार्याणाम्--
युक्तं सितांबराणां तुम्बग्रहणं कुटुंबपरिहरणं ।
कथमन्यथा तरीतुं शक्यः संसारतोयानिधिः॥ यथा श्रीसागरचंद्रस्य--
(गणरत्नमहोदधिः, पृष्ठ २२) अकल्पितप्राणसमासमागमा मलीमसांगा धृतभैक्षवृत्तयः। निर्ग्रथतां त्वत्परिपंथिनो गता जगत्पते किं त्वजिनावलंबिनः ॥
(गणर. पृष्ठ १६४) गणरत्नमहोदधिकर्तृनिर्मितं किमपि सिद्धराजवर्णनाख्यं काव्यं वर्तते तस्मिन् चौलुक्यनरेशसिद्धराजस्य वर्णनमास्ति । एतत्काव्यस्यानेके श्लोका गणरत्नमहोदधावुदाहरणस्वरूपेणोद्धृता । अणहिल्लपुर (पाटण) नरेशस्य सिद्धराजस्य श्वेतांबरजैनसंप्रदाये महती कृपासीत् । अनेन प्रतीयते यत् गणरत्नमहोदधेः कर्ता गुर्जरदेशसन्निकटस्थः श्वेतांबरश्च स्यात् सिद्धराजाणहिल्लपुरप्रशंसायां कश्चिदपि दिगंबराम्नायी ग्रंथो लिखिष्यतीति न किंचित्संभावना प्रतीयते ।