________________
H
O
STALS
- - - UNCTION
प्रस्तावना।
nãber हस्तिमल्लकवेः परिचयः।
सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकोतिः। जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥
(अय्यपार्यः) तद्ग्रंथकर्तुर्हस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंदभाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभठ्ठो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत्, पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य तृतीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः “अस्ति किल सरस्वतीस्वयंवरवल्लभेन भारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति" । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भधार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभः तदानीं साधुर्भारको वा प्रथितः स्यात् । अन्यच्चास्यां विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन-गुणभद्राद्याचार्यपरंपराया उल्लेखं कृत्वा लिखितं ।
तच्छिश्यानुक्रमेयातेऽसंख्येये विश्रुतो भुवि।
गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ अस्यां यत् गोविंदभधे गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रतीयते यद् गोविंदभद्ये गृही नासीत् साधुर्भारको वा स्यात् । ___ अस्ति गोविंदभो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षीनाम्नी काचिद्देवी समाराधिता जाता । तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, ४ उदयभूषण, ५ हस्तिमल्ल ६ वर्द्धमानश्च । एते षडपि