________________
द्वितीयोऽङ्कः।
मिश्रविष्कंभः।
(ततः प्रविशति सोत्कंठो राजा विदूषकश्च) राजाप्रागावयोरुपनतस्य समागमस्य . . संकेतवासभवनं तदनुस्मरामि । यत्रैव दर्पणतले क्षणसन्निविष्टा
संक्रामितौ सममहं च सुलोचना च ॥ १२॥ इदं तु पुनरलब्धविश्रामं परिभ्राम्यत्कथं नु नाम धार्येत धैर्यावसादतरलं चेतः । यतो हि मे।
येनैव सा प्रथममिदुमुखी प्रयाता . मार्गेण मां विकिरती स्मरमार्गणानाम् । तामेव संप्रति च मार्गयतोऽस्य भूयः पर्याकुलस्य मनसोपि स एव मार्गः ॥१३॥ निपीतो नेत्राभ्यामधररुचकः कौतुकरस-. प्रसंगस्मेराभ्यां प्रथममभववत्पक्ष्मलदृशः । कथं पातुं वांछां पुनरपरथैवेयमपरा
परं धैर्यध्वंसं समविदधती नो परमतिः ॥ १४ ॥ विदूषकः-भोवअस्स रमाणिज्जं खु एअंगंगातीरुज्जाणं जाव दक्खिमो। राजा- यद्भवते रोचते। विदूषकः-इदो इदो (परिक्रामतः) भो वअस्स दक्ख दाव गंगातीरु
१ भो वयस्य रमणीयं खल्वेतत् गंगातीरोद्यानं यावत्पश्यामः । २ इत इतः । ३ भो वयस्य पश्य तावत् गंगातीरोद्यानस्य रामणीयकं,अत्र हि मध्यनिरंतरनिबद्धम