________________
विक्रांतकौर
जाणस्स रामणिज्जअं । एत्थ हु। मज्झआरणिरंतराणिबद्धमहाणीलमाणविडंतकंतिविसेसा जंबूणअमणिपालंवा विअ दुभंति अल्लीभमरखव्वुरा आरेवहविडवेहिं फुल्लमंजरीओ । विअसंति णिम्मलरूप्पच्छविधवलुज्जलदलाइ तवणिज्जचुण्णसारिच्छारुणकेसरुक्कराइ विडुमखंडविलोहिअवडुलकण्णिआइ पुण्णाइपुप्फाइ । दीसंति थोरमुत्थाहलफलिहधवलाइ णिम्महिअवहलमइरुग्गंधबंधुराइ तक्खणचोडविअलिआइ महुअकुसुमाइ । सोहंति खंडिअजणहिअउक्खंडणसंकंतवहलरुहिरकद्दमरसरंजिआइ उद्दाममअरंदअसद्दलणहरंकुराइ विअ बाहिरफुटगंठिविअडणसोणिमाइ किंसुअकुसमाइ । अह हि । ओत्ताणपुडइणीराइआइ बहुमंजरिल्लसहआरआइ । कुसुमभरभरिअसेहालिआइ । भूरि विअसंत णोमालिआइ । थवअसअणिविडकंकेलिआइ । विअलंतासवविसरोल्लिआइ। मउल्लग्गममणोहरमल्लिआइ। उप्फुल्लसुरहिबहुवल्लि
हानीलमणिविगलत्कांतिविशेषाः जांबूनदमणिप्रालंबा इव उद्यते आनीलभ्रमरकरा आरेवनविटपैः फुल्लमंजर्यः । विकसति निर्मलरूप्यच्छविधवलोज्वलदलानि तपनीयचर्णसदृक्षारुणकेसरोत्कराणि विद्रुमखंडविलोहितवर्तुलकर्णिकानि पुन्नागपुष्पाणि। दृश्यन्त स्थूलमुक्ताफलफटिकधवलानि निर्मथितबहलमदिरोद्धबंधुराणि तत्क्षणतविगलितानि मधुककुसुमानि । शोभते खंडितजनहृदयोत्खंडनसंक्रांतबहलरुधिरकर्दमरसरंजितानि उद्दाममकरध्वजशार्दूलनखांकुराणीव बहिस्फुटग्रंथिविघटनघनशोणिमानि किंशुककुसुमानि । अथ च । उत्तानपुटकिनीराजितानि बहुमंजरीवत्सहकारकाणि कुसुमभरभरितशेफालिकानि भूरिविकसन्नवमालिकानि स्तबकशतनिविडकंकेलिकानि विगलदासवविसरार्द्रितानि मुकुलोद्गममनोहरमल्लिकानि उत्फुल्लसुरभिबहुवल्लिकानि निपतत्कुसुमरजोधूसराणि मलयानिलचांचल्यमानकेसराणि सर्वांगसुरभिनव्यमरुबकाणि नवगुच्छगुंफितकुरबकाणि झंकारमुखदिराणि सुखशीतलमाधवीमदिराणि मधुशीकरवत् शिशिरबकुलानि मधुरनिनदस्वरभृतकुलानि दर्शितवसंतनवविभ्रमाणि संमानितपवनपरिभ्रमाणि, इदानीं हरति युवजनमनांसि गंगातटपर्यंतवनानि । पश्य पश्य । इह च सुखविनोदे कृतमदनोदये सुरनदीतीरखनोदरे ननु सहचरीसहितः सुरजनः सुखितः मज्जति रतिसागरे।