SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । २९ आइ णिवडंतकुसुमरअधूसराइ मलआणिलचंचेल्लिअकेसराइ सव्वंगसुरहिणवमरुवआइ णवगुच्छगुंठिअकुरवआइ झंकारमुहुरिंदिराइ सुहसीअलमाहइ मदिराइ । महुसीअरिल्लाससिरवउलाइ दंसिदवसंतणवविभमाइ सम्माणिअपवणपरिब्भमाइ एण्हिं हरांति जुवजणमणाइ । गंगाअडपरं तवणाइ पच्छ पच्छ । इह अ सुहविणोदए किअमअणोदए सुरणईतीरवणोअए णं सहअरिसहिओ सुरअण सुहिओ वुड्डइ रहरससाअरे । राजा--(निर्वर्ण्य ) वयस्य सम्यगुपलक्षितम् । अत्र हि । चूषंश्चूतांकुराग्रं क्षणमथ कलिकाः पाटयन् पाटलीनामास्कंदन कुंदकोश झटिति विघटयन कुमलं कारहाटम् । भिंदन मंदारबद्धं मुकुलमविकचं चंपकानां च चुम्बन पुष्पादभ्येति पुष्पं मधुकरनिकरः प्राप्तहर्षप्रकर्षः ॥ १५ ॥ अपि च । अयं च खलु मतंगजमदामोदसंवादिसुरभिसुमनाच्छादयति सप्तच्छदो गंधांतरग्रहणशक्तिं घ्राणपुष्टस्य । अयं च धौतकलधौतगोलककमनीयानि सकौतुककामिनीजनाग्रहस्तग्रहणलीलार्हाणि बिभर्ति महाएणि फलानि जंबीरः । इमानि च स्निग्धहरितानि लुंठयति विबोष्ठानां प्रकोष्ठकांतिं पुण्ड्रेक्षुकांडानि । अयं च तरुणकामिनीकर्णपूरकरणयोग्यानि वहति प्रवालपाटलानि प्रवालान्यशोकः । अमूनि च द्रविडविलासिनीताटंकरचनोचितानि शुकच्छदछवि हरंति हरंति विलोचनानि नालिकेरपत्राणि । इयं च तुलितविदर्भकामिनीपीनोरुस्तंभविभ्रमा स्तम्भयति वीक्षणानि राजरंभा । (अन्यतो विलोक्य निर्वर्ण्य च ) हृद्यामद्यानुधावत्यधरदलरुचारंजितां दंतपंक्तिं गौडीनां प्रौढपाकक्रमपरिदलितैः स्वैः फलैरुच्छिलिंगः । निष्टप्तस्वर्णवर्णच्छविभिरवहितघ्राणलेढव्यगंधैः काश्मीरीगण्डशोभा कवलयति फलैर्निर्मलैर्मातलिङ्ग॥१६॥ १ दाडिमः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy