________________
७२
विक्रांतकौरवे
चतुर्थोङ्कः ॥४॥
(ततः प्रविशति सरलिका) सरलिकाः-भणिदम्हि पिअसहीए णोमालिआए । सखि कीरिसी उण सअंवरकलअणाणंतरं राअउत्ताणं पउत्तित्ति राअउलं गदुअ समंतदो जाणिअ आअच्छेति । ता लहु गच्छेमि । (परिक्रम्यावलोक्य च) ऐसो हु परिहारमहत्तरो अज्जमहिंददत्ता इदो एव अभिवट्टेदि । जाव एअं उवसप्पिअ पुच्छमि । (परिकामति)।
(ततः प्रविशति प्रतीहारः) प्रतीहारः-अहो विवेकमुग्धता क्षत्रियकुमाराणां । कुतः ?
भूयांसः क्षितिपात्मजा वरयितुं वांच्छंति वत्सामिमां सर्वस्याभिमतः स्वयंवरविधिस्तद्वाढमत्रोचितः। इत्यस्मत्प्रभुणा प्रवर्तितमभूद्यत्कर्म निर्मत्सरं
जातं प्रत्युत वैरकारणमिदं तेषां मुधा द्वेषिणाम् ॥ १॥ इदं चैषामपुंयोग्यं पौरोभाग्यम् । यदुत ।
अन्यं कंचन पंचबाणविधुरादन्यं धरित्रीश्वरं या निर्मातगुणा स्वयं वृतवती पश्यत्सु येष्वग्रतः । तां संप्रत्यभिमानदुर्गतधियो वांछंति भूयोपि ते वीभत्सोपहतां धिगस्तु विषयोन्मुग्धामिमां कामिताम् २॥
१ भणितास्मि प्रियसख्या नवमालिकया । सखि कीदृशी पुनः स्वयंवरकलकलानंतरं राजपुत्राणां प्रवृत्तिरिति राजकुलं गत्वा समंततो ज्ञात्वाऽऽगच्छति । तस्मालघु गच्छामि । २ एष खलु प्रतीहारमहत्तरः आर्यमहेन्द्रदत्त । इत एवभिवर्तते । यावदेतमुपसृत्य पृच्छामि ।