SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। १२३ Annnnnnwwwrammarrrry स्रजमुपरि कराभ्यामंसयोरर्पयंत्या छलचलितवयस्या हस्तसंचारिताभ्याम् । मम किमपि रहस्यं कर्णयोरभ्युपेत्य स्खलितवलयनादच्छानेवाभ्यदायि । २६ ॥ अथवा किमन्यदिह कथ्यते । आदाय दाम मयि कौसुममर्पयंत्या किंचिद्विकुंचनचलच्छिथिलोत्तरीयम् । आकम्य पक्ष्मलहशा कुसुमायुधस्य बाणैरिव स्फुटमहं परिवेष्टितोस्मि ॥ २७ ॥ ( सविशेषौत्सुक्यं ) किं च तस्याः स्विद्यदंगुलिगुरुत्रपाजडं हस्तयुग्ममवशं मदंसयोः। सस्तमुक्तमधुना स्मृतिं गतं सस्मितप्रियसखीकरोद्धृतम् ॥ २८ ॥ यदा खलु मे। उच्छ्रयसोनतशिखरे प्रस्विद्यत्पुलककृतपुरःसरणे । अनुसरणमिवाधत्तां तस्याः कुचयोरिमे असे ॥ २९ ॥ नंद्यावर्तः-(विभाव्य । आत्मगतं ) कथमविच्छिन्नश्चिंतासंतानो देवस्य । अहो अदीर्घसूत्रता मदनस्य । यतः सन्निकृष्यमाणोपि प्रणयिनीसमागमसमयो नालममुष्यात्मनोपस्थापनाय। भवतु पृच्छामि । (प्रकाशं) देव केदानी मनः परिभ्राम्यति । यत्तूष्णीमेवास्यते । राजा-सखे नंयावर्त कथं कथयामि ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy