________________
१२२
विक्रांतकौरवे
मनौरथैस्तत्क्षणपूर्यमाणेनिर्यद्भिरंतर्निविडैरिवैतत् । अंसद्वयं मे पुलकैः स्फुटद्भिः
प्रत्युत्थितं तत्करलालनाय ॥ २२ ॥ अथवा । कथमंसयोरेवौत्सुक्यं कथयामि । येन
दूरादहंपूर्विकयोपसृत्य प्रियाकरस्पर्शरसं जिहीर्षः। ममान्यमप्युत्सुकमंगमंग
मंसद्वये संक्रमीतं तदेषीत् ॥ २३॥ अंगीकरोति च न पुनरन्यानि ममाङ्गानि बहुमानः । यतः
तत्पूर्वकं मे स्रजमर्पयंत्या स्रनिर्विशेषेण करद्वयेन । नतांसया स्पृष्टमिदं तु नीत
मुत्तंसतामंसयुगं शरीरे ॥ २४॥ प्रियतमास्पर्श इति हि किमप्यन्यत्संपन्नं रसायनमुत्कंठमानस्यांत:करणस्य । तथाहि
न हारयष्टौ न तुषारवृष्टौ न चंद्रकांते न च चंद्ररश्मौ । ध्रुवं मया जातु चिदन्वभावि
प्रियांगसंस्पर्शसुखस्य लेशः ॥ २५ ॥ . किंच । तस्या आप बिसगुणक्लप्तगुंफनां कुवलयगर्भदलापमालिकां कठिनयति समस्तमार्दवद्रव्यरचितेव तनुभृगीदृशः । किंचान्यत् ।