________________
पञ्चमोऽङ्कः ।
मिश्रविष्कंभः ।
Caillou
( ततः प्रविशत्युपविष्टो राजा नंद्यावर्तश्च )
राजा - ( आत्मगतं ) भोः चिरादय समरव्यतिकरतिरस्कारमनो रथयूथानाघ्राता सन्निधत्ते हृदये हृदयवल्लभासानुरोधम् ।
तत्प्रार्थयामि घटनाय रणे प्रवृत्ते नैवागसे विघटनापि मनोरथा वः । लब्धक्षणाः प्रियतमां प्रति हे भवंतः
संभूय यत्किमपि संप्रति सूत्रयंतु ॥ १९ ॥
( चिंतामभिनीय ) अहो स्वैरचारिता दत्तावसराणां मनोरथानाम् । अमी हि
आलिंगत्यबलां बलादनुनयव्यापारदूरस्थितां
निर्बंधादनुवर्तयंत्यवचनामालापर्यत्युत्सुकाः । आजिघंति निरुंधतीमनिभृतं चुंबंति कंपोत्तरां संपातेन मनोरथानदद्धति वीडावकाशानपि ॥ २० ॥
( सोत्कंठं ) किंच बहुना ।
१२१
स्वैरमद्य युगपद्विनिस्सृतै-स्तामकंपन सुवासिनीं प्रति ।
यद्विकल्पितमभून्मनोरथै
स्तन्ममापि वचसां न गोचरः ॥ २१ ॥
( स्मृतिमभिनीय ) कथमद्यापि सैव हृदये परिवर्तते स्वसंवत्यंती काशीराजसुता । यदा ख