________________
१२४
विक्रांतफौरवे
कराभ्यामुत्सृज्य स्रजमुपरि संमोहजननी बलात(रं मम निभृतमाछिद्य च मनः। पुरो धैर्यालेपः स च सपदि धौतोदयितया न विद्मस्तनीतं पुनरथ किय(रमनया ॥ ३० ॥ नंद्यावर्तः–देव किमत्र खिद्यते ? । ननु गतैव स्वयंवरकलहात् प्रभृतिदूयमानया परिसमापितसमरव्यापारं देवमवेक्षितुं कुतूहलिन्या तत्र भवत्या काशीराजपुच्या देवपादमूलं प्रति प्रेषिता संकेतस्थानप्रदर्शनाय सौधातकिं गृहीत्वा नवमालिका ।
राजा-अस्त्येतत् । गरीयान खलु कातरतया समरकर्मण्यत्याहितमस्मासु शंकमानायाः काशीराजदुहितुः परितापः । सा हि
स्वपतिस्वयंवरसमुत्थसंभ्रमग्लपितत्रपाविवृतभूरिसाध्वसा। कथमप्यभूत् प्रियतमा न मूच्छिता
नवमालिकाकुसुमदामकोमला ॥ ३१ ॥ नंद्यावर्तः–देवेनैतच्छंकास्थानं किं तु देव इति केवलमभूत्काल्याणः परिणामः। राजा-सखे अद्यापि तस्याः ।
अंतर्निपीतनयनांबुपरिप्लुतानि ब्रीडाविशेषविधुरव्यपवर्तनानि ।
चेतस्तुहंत्यविदितोपतप्रमोद- प्रारंभविघ्नचकितानि विलोकतानि ॥ ३२ ॥ अपि च तस्याः ।