________________
चतुर्थोऽङ्कः।
अयमयमिह युद्धाबद्धगोंद्धतानां भुजबलमदभारं स्वैरमयावरोप्य । नियमयति भुजौ द्वौ भारतस्यार्ककीर्ते
युधि कुरुपतिसुनुर्मोचयंत्वेतदीयाः ॥ ९९ ॥ मंथरकः-सव्वेवि एण्हिं दिव्वअणादिण्णसाहुक्कारोपहारा कोरवेसरस्स उवरि मुंचति मंजुगुंजंतमहुअरणिअरणिव्वज्जतमअरंदणिस्संदाणम्महिअबहलगुरुपरिमलवासिज्जंतगअणाभोगं विसत्तसंताणमंदारहरिचंदणणमेरुपरिजादभूइडं पुप्फविहिं। मंदरः तेन हि वयमपि तथा कुर्मः ।
(सर्वे साधुकारमुखराः पुष्पवर्षे नाटयंति) मंदरः-देव पश्य पश्य ।
सुरकरविनिर्मुक्तां व्यक्तापदानविकत्थिनीं वहति सुमनोवृष्टिं सिद्धाध्वनः पतितां जयः। नृपतिषु बहुष्वभ्यर्यैव स्थितेषु जयश्रिया
विदितगुण एवान्यां न्यस्ता स्वयंवरमालिकाम् ॥१०॥ रत्नमाली
परा जयमसौ प्राप्ता कौरवस्य पताकिनी। पराजयमसौ प्राप्ता पौरवस्य पताकिनी ॥१०१ ॥ मंदरः--देव पश्य पश्य ।
-
१. सर्वेपीदानी दिव्यजनादत्तसाधुकारोपहारा कौरवेश्वरस्योपरि मुंचंति मंजुगुजन्मधुकरनिकरनिर्विश्यमानमकरंदनिष्यंदनिर्थितवहलगुरुपरिमलवास्यमानगगनाभोगं विकसत्संतानमंदारहरिचंदननमेरुपारिजातभूयिष्टां पुष्पवृष्टिम् ।