________________
विक्रांतकौरवे
कुरुनरपतिपाशानद्धनिष्पंदबाहुविघटितनिजसैन्यः शोभते नार्ककीर्तिः । इयमपि दिवसांतम्लानिपर्यस्तविंबा
क्षपितकरसहस्रा शोभते नार्ककीर्तिः ॥ १०२॥ रत्नमाली-(विलोक्य ) कथमधुना
कौरव्यहेतुनिहतः प्रतिपक्षभूभृद्वक्षः क्षरत्क्षतजपूरसमुक्षिता मा । संध्यानुरागकपिशा वरुणस्य चाशा
धत्तः परस्परममू प्रतिविंबशोभाम् ॥ १०३ ॥ कथं नियूंढसंगरस्संगरांगणाद्विनिवृत्तः कौरवः । अद्य च
मदद्विपानां करवारिसिक्ता मदांबुसिक्ता हयफेनसांद्राः। अमी रणादद्य परागतानां
समीरणाः श्रांतिमपाहरांत ॥ १०४ ॥ मंदारमाला-कह समत्ता समरजत्ता। .. मंदर-देव पश्य पश्य । निष्पिष्टद्विषदश्च सांद्ररुधिरव्यालेपताम्यत्कराः प्रक्षुण्णप्रतिपक्षदंतिपिशितप्रक्लिन्नदंतार्गलाः। एते श्रेणिकृता विशंति नगरद्वारावकाशीक्षिणः प्रोन्मीलन्मणितोरणां रणमुखाद्वाराणसीं वारणाः ॥१०५॥
१ कथं समाप्ता समरयात्रा।