________________
१०८
विक्रांतकोरवे
रत्नमाली-अहो दुर्भरः प्रतिज्ञाभरः । मंदरः-इत्थमाह कौरवः।
संधातुमेकतममुत्सहते पृषत्कं यावद्भवान् धनुषि वांचितसंप्रहारः । अस्मत्पतत्रिमुखलूनतमुस्तवेयं
तावद्विधा भवति पश्य शरासनज्या ॥९८॥ मंथरकः-कहं छिण्ण एव पोरवणुसिंजणी कोरवखुरप्पण। रत्नमाली-युगपदेव कौरवस्य प्रतिज्ञा च साधनं संपन्नं। . मंदरः-देव
पश्य कोदंडदंडोऽयमर्ककीर्तेर्गतौजसः।
निर्जीवस्तिमितो जात: शत्रुणा समरे हतः॥ ९८॥ मंथरकः-कहं झत्थि पोरवरहं आरूढेण गहीदो कोरवेण विलक्खतुह्निको अक्ककित्ति । पलाइदं च समंतदो पोरवबलेण । उत्थिदो अ कोरवस्स जअकोलाहलो पोरवबाहुजुअअवट्टिणा पासेण कहं संणद्धो किं कुणइत्ति आसंकेमि ।
मंदरः-कथमात्मन एव मस्तके निपतितोर्ककीर्तेर्दभदंभोलिः । रत्नमाली–अहो कौशलं कौरवस्य । मंदरः-आह च कौरवः ।
- १ कथं छिन्नैव पौरवधनुरिंशजनी कौरवक्षुरप्रेण । २ कथं झटिति परिवरथमारूढ़ेणं गृहीतः कौरवेण विलक्षणतूष्णीकः अर्ककीर्तिः । पलायितं च समंततः पौरवबलेन । उत्थितश्च कौरवस्य जयकोलाहलः । पौरवबाहुयुगलवर्तिना पाशेन कथं सन्नद्धः किं करोत्याशंके ।