________________
चतुर्थोऽङ्कः ।
तातस्सेवैकवश्यः स्वजनयति कुरूनित्युपेक्षाप्युदस्ता ताताधिक्षेपवयं मुखकुहरमिदं मृष्यते नार्ककीर्तिः । सृक्कप्रांतावलग्नोल्लुठदुभयशिखाखंडितोर्ध्वाधमूर्धा भल्लःप्रद्वेषिमल्लः शमयतु तव क्षीव मौखर्यमेषः ॥ ९४ ॥ मंथरकः - हंते विमुक एव्व पोरवेण कअंतदाढाकरालधारापेरंतो रभसुप्पडणमीसणसरिल्ला भल्लो ।
१०७
मंदारमाला--केंहं अद्वपहएव्वकोरवेण सहसुम्मो क्खसम्मोढरिदेहि सरणिअरेहि चुण्णिदो सो भल्लो ।
मंदर--न तावन्मात्रमेव केतुदंडाग्रमपि खंडितं पौरवस्य । साधु कौ - रव्य साधु । इत्थमाह च कौरवः । अरे अरे पौरव पश्य पश्य ।
ललबंटाजिह्वेाल्लुठनरचिताक्रंदविरसं शिरःकेतोरेतन्निपतति पुरस्तात्तव भुवि । विमुक्तव्यालोलध्वजपटशिखा केशनिचयं
मर्दायास्त्रच्छिन्नं तव च निधनं भाव्यमुपदिशत् ॥ ९५ ॥ रत्नमाली -- कथं सर्वत्राप्यतिशेते कौरवः । मंदर:—कथं पुनरप्याह क्रोधसंरंभभैरवः पौरवः ।
रे रे कौरव संप्रति क्षणक्षणं दत्तक्षणो निर्भयः स्वैरं विक्रमिणां वचांसि पठितान्यावर्तयावर्तय । निष्पर्यायविनिष्पतच्छरशतच्छिन्नांश्च पश्य क्षणात्वां तूणीं कवचं गुणं धनुरिषून वाहान् ध्वजं सारथिम् ॥ ९६ ॥
१ हंत विमुक्त एव पौरवेण कृतांतदंष्ट्राकरालधारापर्यंतः रभसोत्पतनभीषणशखान् भल्लः । २ कथमर्धपथ एवं कौरवेण सहसोन्मुक्त्तसमुद्धृतैः शरनिकरैः चूर्णितः
स भलः ।