SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । तातस्सेवैकवश्यः स्वजनयति कुरूनित्युपेक्षाप्युदस्ता ताताधिक्षेपवयं मुखकुहरमिदं मृष्यते नार्ककीर्तिः । सृक्कप्रांतावलग्नोल्लुठदुभयशिखाखंडितोर्ध्वाधमूर्धा भल्लःप्रद्वेषिमल्लः शमयतु तव क्षीव मौखर्यमेषः ॥ ९४ ॥ मंथरकः - हंते विमुक एव्व पोरवेण कअंतदाढाकरालधारापेरंतो रभसुप्पडणमीसणसरिल्ला भल्लो । १०७ मंदारमाला--केंहं अद्वपहएव्वकोरवेण सहसुम्मो क्खसम्मोढरिदेहि सरणिअरेहि चुण्णिदो सो भल्लो । मंदर--न तावन्मात्रमेव केतुदंडाग्रमपि खंडितं पौरवस्य । साधु कौ - रव्य साधु । इत्थमाह च कौरवः । अरे अरे पौरव पश्य पश्य । ललबंटाजिह्वेाल्लुठनरचिताक्रंदविरसं शिरःकेतोरेतन्निपतति पुरस्तात्तव भुवि । विमुक्तव्यालोलध्वजपटशिखा केशनिचयं मर्दायास्त्रच्छिन्नं तव च निधनं भाव्यमुपदिशत् ॥ ९५ ॥ रत्नमाली -- कथं सर्वत्राप्यतिशेते कौरवः । मंदर:—कथं पुनरप्याह क्रोधसंरंभभैरवः पौरवः । रे रे कौरव संप्रति क्षणक्षणं दत्तक्षणो निर्भयः स्वैरं विक्रमिणां वचांसि पठितान्यावर्तयावर्तय । निष्पर्यायविनिष्पतच्छरशतच्छिन्नांश्च पश्य क्षणात्वां तूणीं कवचं गुणं धनुरिषून वाहान् ध्वजं सारथिम् ॥ ९६ ॥ १ हंत विमुक्त एव पौरवेण कृतांतदंष्ट्राकरालधारापर्यंतः रभसोत्पतनभीषणशखान् भल्लः । २ कथमर्धपथ एवं कौरवेण सहसोन्मुक्त्तसमुद्धृतैः शरनिकरैः चूर्णितः स भलः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy