________________
१०६
विक्रांतकौरवे
मंदरः कथं क्रोधोद्धतिसापख्यमाख्यत्पौरवः ।
कथमपि रणं प्रत्याख्याय स्थिरीकृतजीवितः व पुनरधुना कौरव्य त्वं पलायितुमीहसे । उरसि लुठति मे ना सौभाग्यविक्रममदायिनी मम तु विशिखाः छिंदत्येते स्वयंवरमालिकाम् ।। ९२ ।। रत्नमाली - कथमुपहासोल्लासमाह कौरवः । अहो ते दुष्करकारिता यत्कुसुमान्यपि छेत्तुमातिष्ठसे ।
1
मंदरः—कथं क्रोधोत्सेकमाह पौरवः । किंच रे अनास्थयोपेक्षितविक्रमं गणयसि तन्मुग्धसुकुमार समरविदग्धः ।
नायं तोयधरो स्थिरश्चलव पुर्नैतद्वियत्कामुकं यं प्रेक्षणी तटित्प्रलघवो नैतेप्यपां बिंदवः । जेताहं भवतोर्ककीर्तिरलघुस्थेमेदमस्मद्धनुयहानौ विमुखे यमस्य विशिखाञ्चैते प्रहारोन्मुखाः॥९३॥ रत्नमाली —– अहो परगुणाभ्यसूया पौरवस्य ।
मंदरः—कथमवगणनादारुणमाह कौरवः । अयि भो भरतपुत्र साधु शिक्षितोसि नटविभीषिकायां यद्वीररसोदारप्रयोगेष्वसमर्थस्तत्रभवानित् विकत्थसे ।
रत्नमाली - अहो सरसाणि वीराणां मानावष्टंभसोल्लासानि स्ववा - कोवाक्यानि ।
मंदरः—कथं क्रोधात्सेधसंघट्टितभ्रुकुटिभीषणफालपीठकठोरमाह पौरवः । अरे दुमीनमदनोन्मत्तनिर्मर्याददुर्वादमुखरकुरुकुलपांसन वाढमय विपयस्तप्रकृतिरास । यत्सुगृहीतनामधेयं तातमप्युपहासविरसं विभाषसे । तत् किं बहुना ।