________________
चतुर्थोऽङ्कः ।
मंथरकः - अहो अविलंवसहो सहाओ ।
मंदरः — कथमित्थमाह कौरवः । अहो अनात्मनीन न जानास्यात्मानं । अविचारिताचरणनिघ्नो हि पुमानचिरेण विपदुपघ्न्नतामास्तिघ्नते ।
तदिदानीम् -
१०५
येsमी रथं ते परिवारयंते भवत्परित्राणकृतोष्टचंद्राः । निहन्मि तानेष शरैरमोघै
स्त्वं तावदात्यक्षसि चेयुयुत्सताम् ॥ ८९ ॥ मंदरः कथं निहता एव कौरवेणाष्टाभिश्शरैरैर्क कीर्तिरथरक्षिणोष्ट चंद्रा
रत्नमाली - कथमधुना
अष्टचंद्र विनिपातविलक्षो नष्टचंद्रतिथिनिःप्रभ एषः । चक्रवर्तितनयस्य रथोद्य कुंठिताखिलमनोरथ आस्ते ॥ ९० ॥
मंदरः कथं पुनरप्याह कौरवः । अयि युयुत्सासमुत्सुक अव्युत्पन्नोसि रणकर्मणि ।
ततश्च ।
इदानीमप्यस्ति त्वयि भरतसूनौ मम घृणा क्षमाव्यद्वृत्तेषु द्रविणमिह नः पैतृकमिदम् । व्रज स्वैरं युद्धात् स्वगृहमथवा प्रेतभवनं गतिस्तातयीकी न पुनरिह काप्यस्ति भवतः ॥ ९१ ॥
रत्नमाली -- अनुकरोति सोमप्रभं प्रशमेन मेघेश्वरः ।
१ अहो अविलंब सहः स्वभावः ।