________________
१०४
विक्रांतकौरवे
अर्ककीर्तिरसावर्कः सोमस्त्वं सोमवंशजः । अमुमास्कंदतो मूढ तवैव प्रत्युत क्षयः ।। ८५ ॥ अपि च । रे सन्नतद्धतया विक्रम्य संत्रस्तः किमसि विस्मृतः वाहनिकयुद्धनिषेधनं । ननु तूष्णीमेवास्ते ममयममर्षिणी सर्वाप्यक्षौहिणी । तदद्य
शासितुं काममीशस्त्वामेकको मम सायकः।
शोभायै दिक्परीणाहगृहिणी मम वाहिनी ॥ ८६॥ - रत्नमाली-आहो परुषिकामसहमानः कथं सानुतापमाह कौरवः । अयि स्वयंवरमर्यादाविभेदिन्नखर्वितदुर्विनयगर्वित शोचनीय इदानीं भवादृशैः पुत्रैमहाराजभरतः । कुतः।
स्खलन्मरीचिश्चरितादहिंसतात्तपांसि पाखंडकृदनजस्ते । त्वमर्ककीर्तिः पदवीमकीर्ते
गतोसि भिंदन गृहमेधिवृत्तिम् ॥ ८७ ॥ रत्नमाली–युक्तमाह कौरवः ।
मंदरः-कथमवधीरणाधीरमाह पौरवः । अयि मूर्ख प्रक्रांतमपि न स्मरसि न खल्वियमनुनयगोष्ठी । तदिदानीम्
नमतु शरसहस्रोद्गारसंरंभीमः . परुषपविनिपातस्फारविस्फारधीरः । हठविघटितशत्रुक्षत्रियव्यूहबंधस्समरनिकृतिचंडः सामिकोदंडदंडः ॥ ८८ ॥