________________
चतुर्थोऽङ्कः।
अत्र हि
तरंगैरानानं रथ इव पितुयंतरजये समुद्रं निर्मुद्रं जितमकरसंचाररभसः । कुरूणां निर्मिदन झटिति मकरव्यूहमधुना
रथः सम्राटसूनोर्विघटयति वेगप्रतिभयः ॥ ८२॥ रत्नमाली-( विलोक्य ) कथमभियुक्तौ परस्परेण कौरवपौरवौ । मंदरः-कथं प्रतिषिध्य सैन्ययुद्धमेकतुलाघातमेतौ कर्तुं प्रवृत्तौ । रत्नमाली-यावदीषदवतारितविमानाः परस्परव्याहारमनयोः शृणुमः।
(विमानावतारनाटितकेन तिष्ठति ) मंदरः-कथमित्थमाह पौरवः । अयि कौरवम्लेच्छानां समरे कुरोः स्वजनतां तातेन संपश्यता वीराणां प्रथमेष्वहं प्रथमिका बद्धप्रतिज्ञेष्वपि । । वध्वा वीररसानभिज्ञभवतो द्राग्वीरपट्टे कृता
कीर्तिस्तां विततोत्थितामपहरत्यद्यार्ककीर्तिः कुधा ॥८३॥ मंदारमाला-अम्हो गरिहा दिहि ठिआ पोरवस्स ।
मंदरः-कथमित्थमाह कौरवः । अपि पैतृकानीकप्रपंचनिरीक्षणप्रक्षीव श्रूयतामयमर्थः।
शीतांशोरिव तीक्ष्णांशुं तव मामुपसर्पतः। बाणैः स्पृष्टस्य पक्षस्य प्राणाशा प्रांशु जायते ॥ ८४ ॥ रत्नमाली-अहो स्थैर्यं कुरुकुलकुमारस्य । कथं स कोपोत्सेकमाह पौरैवः । रेरे अनिबद्धप्रलापिन् ।
१ अहो गरिष्ठा दृष्टिः स्थिता पौरवस्य ।