________________
षष्ठोऽङ्कः।
राजा-(आत्मगतं ) कथं प्राप्तैव प्रिया । ( सापदेशं विलोक्यसौत्सुक्यमात्मगतं)।
यावष विशोषमोत परितः कंठं प्रदिग्धच्छटः
कर्पूरव्यतिषंगभूरिसुराभ कस्तूरिकाकर्दम । यावन्न स्तनयोरयं मलयजक्षोदस्त्यजत्यार्द्रता तावत्कौतुकि यद्यदिच्छति मनस्तत्तत्कथं ब्रूमहे ॥ ४४ ॥ इदं च पुनरपरमपत्रपायै धैर्यस्य । यत्किल
आमुक्तकंकणमधीरदृशः प्रकोष्ठमेष गृहीतुमिममद्य कुतूहली नः । आमुंचती स्थगितसत्त्वबलावलेपो
रोमांचसंचयमनुस्मरणेन हस्तः ॥४५॥ नवमालिका-पिअसहि एस महाराओ । जाव पणमेहि ।
(सुलोचना प्रणमति) महाराजः-(परिष्वज्य ) वत्से कल्याणभागिनी भव ( उत्थाय ) . प्रत्यासीदति कल्याणि वेला दैवज्ञचोदिता।
प्रसीदति मनश्चैतत्प्रथमं शुभसूचनम् ॥ ४६ ॥ । तदिदानीम् । भंगारस्तावत् ।
प्रतीहारः-एष रत्नभंगारः । ( उपनमयति ) महाराजः-( गृहीत्वा )
इयं मया कौरवकैरवेन्दो तुभ्यं वितीर्णा गुणरत्नपूर्णा
.१. प्रियसखि एष महाराजः । यावत्प्रणमस्व ।