________________
१५०
विक्रांतकौरवे
पठति सूक्तानि सदर्भसंस्तरप्रणीतहव्याशननव्यवेदयः । अमी यथासूत्रहुतानलत्रया
स्त्रयीविशुद्धाः प्रथमे द्विजन्मनाम् ॥ ४०॥ अपिच
शुभ्रग्रहाधिष्ठितकेन्द्रशोभितं तृतीयषष्ठायगतेतरगृहम् । वदति जामित्रविशुद्धमत्तनुं
मुहूर्तमहायमुहूर्तकोविदाः ॥ ४१ ॥ अमी च ।
समुच्चरत्तूर्यनिनादसांद्रं प्रासादकुंचप्रतिशब्दमंत्रम् । शब्दांतराण्यंतरयत्यमीषा
मुदोषणं मंगलपाठकानाम् ॥४२॥ इतोपि ।
गृहीतमांगल्यमनोज्ञमंडनामिहानयत्यानमिताननांबुजाम् । प्रमोदपारिप्लवमंजुजल्पितः
सखीजनः संप्रति भर्तृदारिकाम् ॥ ४३ ॥ (ततः प्रविशति यथानिर्दिष्टा सुलोचना नवमालिका च) नवमालिका-ईदो इदो पिअसही ।
( यथोचितं परिक्रामतः)
१. इत इतः प्रियसखी।