SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५२ विक्रांतकौरवे मतीवाल्पसुलभसुकुमारचापला सत्वरमागत्य मां हस्ते गृह्णाति (निर्वण्र्य) अहो लालनीयता वालस्य । तथाहि गतिर्लालालोलातरलतरलं चारु च वचः स्फुरदंतज्योत्स्ना प्रसररमणीयं विहसितं । स्तनौ नोद्भिद्यते न च विचरतः साचि नयने किमप्यस्या वाल्यं हरति तरुणिनोप हृदयम् ॥ २०॥ भद्रे किं ब्रवीषि । आह्वति भावमर्जुकेति । (ऊर्ध्व विलोक्य ) कथमशोकलतिकापि द्वितीयस्यां प्रासादभूमौ गोपानसीमध्यासीना विडंबयंती विमानारूढां दिव्ययोषितमित एव दत्तदृष्टिी प्रतीक्षते। भवतु प्रवक्ष्यामि । (प्रविश्य ) इयं सोपानपंक्तिः । यावदारोहामः । (नाट्यनारुह्य) वासु कल्याणिनी भव । किं ब्रवीषि । संनिहिताममूं पर्यकिकामलंकरोतु भाव इति । यथाह भवती । (उपविश्य ) वासु किमिदं गवाक्षजालांतरिता विदूरे वर्तसे । कथं सविभ्रमोन्नमितभ्रूलतमसौ स्मयमानविलोचना न किमपि ब्रवीति । भवतु कथितमनया पुष्पवत्त्वम् । वासु कः खलु वराकः पुष्पवतीमशोकलतिकामसंभावयति । कृतं वीडितेन । किं ब्रवीषि । इह गच्छतो हास्तिनपुरवास्तव्यस्य नंद्यावर्तनाम्नः कौरवेश्वरप्रियानुचरस्य त्रीणि दिनानीति । तेन हि लब्धमेव देशांतरपरिभ्रमणफलं नंद्यावर्तेन । अथ कीदृशो गुणै द्यावर्तः । किं ब्रवीषि । न क्वापि हीयते वाराणसी विटपमहत्तरादार्यभद्रिलकादिति । कथं मयैवोपमीयते । भवत्विदमुपालभ्यते। कथं स कामी पुरुषार्थवित्स्याद्विहाय यस्संप्रति वर्तते त्वाम् । अमोघमस्त्रं ननु पुष्पमृद्वि त्वं पुष्पिता पुष्पशरासनस्य ॥ २१ ॥ किं ब्रवीषि । कुतः पुनर्भावनाप्रविश्य भवनं गंतुमुपक्रांतमिति । वासु समापति स्वयंवरयात्रायै राजानस्तदवेक्षणचापलमत्र मां चलयति । किं
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy