________________
વર્
तृतीयोऽङ्कः ।
1
ब्रवीषि । तेन हि स्वैरमिहैवास्यतां । एष हि स्पृष्टमेव निरीक्ष्यते पार्श्वतो राजमार्गः । कियती च वेला पुनरित एव प्रतिष्ठमानानां राज्ञामिति । ( विलोक्य) कथं प्रवृत्तमेव गंतुमितो नृपतिभिः । किं ब्रवीषि । अथ कोयं पार्श्वचरेण चामरग्राहिणानुगम्यमानो वल्गु वल्गतं महाप्रमाणमाजानेयमारुह्य राजमार्गमवगाहत इति । ( विभाव्य ) अयं खल्वनिल्वाटेश्वरः कुब्जरात्रस्य पाता ।
तथाहि
―――――
स्थगित जठरभागाः श्मश्रुभिर्लम्बमानैर्निशितधवलधारान् विभ्रतो मंडलाग्रान् । अनतितरलयातास्तं पतिं सूचयंति प्रकृतिसरलगात्रास्सैनिकाः कौब्जरात्राः ॥ २२ ॥
किं ब्रवीषि । कः पुनरयमतिरयतूर्णपदगामिनं वानायुकप्रवेकमारुह्य प्रयाति ।
( विभाव्य ) कथमसावधिष्ठानस्याधिष्ठाता काश्मीरेश्वरः ।
तथाहि
तूणीरिणः स्थूलकठोरवेणुर्निर्माणबाणासनपाणयोऽमी । गौरत्विषः कर्कश बभ्रुकेशाः काश्मीरनाथं कथयति सैन्याः ॥ २३॥ किं वीषि ।
कः पुनरसौ विंध्यशिखरोदयकायमाबद्धनक्षत्रमालोज्ज्वलनैपथ्यं स्थूलपृष्ठं विंध्यसिंधु र पृष्ठमधिरुह्यायाति । ( विभाव्य ) कममसौ आन्ध्रदेशाधिपतिः विजयवाटीपतिः ।
तथा ह्यमी ।
प्रांशुप्रतीकाः प्रकृतिप्रगल्भाः प्रायेणकालागरुकालवर्णाः । कुंतान वहंतो गुरुदीर्घदंडानंधाधिराजस्य चरति सैन्याः ॥ २४ ॥