SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५४ विक्रांतकौरवे ~~~xmmmmmmmmmmmmmmmmmm किं ब्रवीषि । कः पुनरसौ महाप्रमाणबान्हिकनिबर्हिवर्माणमनाकुलचरणविन्यासां विभाव्यमानगमनजवां वेसरवधूमारुह्यातिवर्तते इति । अयं खलु कर्नाटकभूमेः पालयिता मान्यखेटाधिपतिः । तथाहि । अमुं परितः उत्कीर्णशंखमणिदामपरीतकंठाः प्रालंबकर्णविनिवोशतदंतपत्राः। कर्नाटका विकटविस्मयनीयवेषाः शक्त्युद्यताः प्रथितशक्तय आपतंति ॥ २५ ॥ किं ब्रवीषि । कः पुनरसौ सत्वरितचटुलगामिनं कर्कशवपुषं विक्रमारूढः पादचारिभिरेव छत्रधारिभिरासेव्यमानः सत्वरमभ्येतीति । (विभाव्य ) कथमसौ चोलेश्वरः खरपुराधिपतिः। तथाहिकौक्षयकान् कुंचितकुब्जपृष्ठान धनूंषि वार्माणि च बिभ्रतोमी । वेषैरनत्युद्भटदर्शनीयैश्चोलेश्वरं चोलभटा ब्रुवंति ॥ २६ ॥ किं ब्रवीषि । कः पुनरसौ नातितूर्णगमनांदोलिताभोगकिंकिणीझणझणारवमुखरं कलिकलभमारूढ इति । (विभाव्य) कथमसौ दक्षिणमथुराधिपतिः पाण्ड्यः । तथाहिशिखंडिवर्हाग्रपिनद्धचूडा प्रौढानि तालानि शरासनानि । वहंति मुक्तांचितहेमपत्र-कर्णा अमी पांड्यनरेंन्द्रसैन्याः ॥ २७॥ किं ब्रवीषि । कः पुनरयमांदोलिकाधिरूढो निभूतमंदगामिपरिजनो राजन्यमिति । (विभाव्य ) कथं केरलपालो महोदयपुराधिपतिः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy