________________
तृतीयोऽङ्कः।
अमी हिआगुल्फदीर्घक्षुरिकापिनद्ध-कटीतटास्सव्यकरात्तचापाः ।। करैः परैस्तीक्ष्णमुखान् वहति शिलीमुखान केरलनाथसैन्याः२८
किं ब्रवीषि । कथमसावचपलखेलस्थूलोच्चयगामिनीं करेणुकामारूढः कौरवेश्वरो दृश्यते इति । (विलोक्य) वासु केनाभिज्ञानेन कौरवेश्वरमज्ञासीः । (विभाव्य ) नूनमसावमुष्याग्रतः संमुखमासीनः स एव भवत्याः पतिर्नयावर्तः । यतः सोपि नात्र लग्नां दृष्टिं प्रत्याक्षिपति । कथममुना स्मितेनैव ह्यनुज्ञातव्यमहत्येव सत्यमत्रभवती नंद्यावर्तः । तिष्ठत्वेतत् । कथय कतमः खल्वत्र काशीराजस्य जामाता भविष्यति । किं ब्रवीषि । श्रुतं मया नंद्यावर्तमुखात् द्विःकिल वृत्तम् । सुलोचनामेघेश्वरयोः परस्परदर्शनमनुरागश्च गरीयान् तथा तथा प्रकटित इति । इति युज्यत एतत् । कुमुदाकरमेव हि कौमुदी संभावयति । व्यज्यते चास्योत्कंठतानेन लिंगेन । अस्य हि
तंद्रालसानि सुहृदा सह भाषितानि निद्रात्ययादिव जडानि निरीक्षितानि । चिंताभरोपहितपांडिमगंडशोभं
प्रम्लानकोकनदमंथरकांतिवक्रम् ॥ २९ ॥ वासु गतस्सर्वो राजलाकः । यावदहं गत्वा स्वयंवरवृत्तान्तं जानामि । किमाह भवती । तेन हि गम्यतामिति ( उत्थाय ). वाराणससिारयौवने मेघश्वरमेव वरं स्वयं वृणीतां सुलोचनासुभगं त्वामेव नित्यसुमुखां नंद्यावतोपि नंदयतु ।
(इति निष्क्रांतो विटः।)