________________
विक्रांतकौरवे
nwro.
com
शुद्धविष्कंभः।
(ततः प्रविशत्यासनस्थो राजा नंद्यावर्तो विदूषकश्च ) राजा-(सोत्कंठमात्मगतं .) अहो सौकुमार्यमपि योषितां कार्कश्यमेव पुष्णाति पुष्पायुधस्य । तथाहि
उद्भिन्नकौतुकरसव्यातिभिन्नलज्जा पारिप्लवानिकृतसाध्वससंप्लवानि । विप्रेक्षितानि मधुराणि सुलोचनाया
स्संतापयंत हृदयं मृदु शीतलानि ॥ ३०॥ मुष्णाति च विषमेषुदूषिता शेमुषी सत्त्वोन्मेषं पुरुषस्य । तथाहि
सममिदमधुना सुलोचनायाः प्रकृतिचलेन विलोचनद्वयेन । अनिभृतमभवद्विलुप्तसत्त्वं
हृदयमधीरमधीरलोचनायाः॥ ३१ ॥ (विभाव्य ) अहो संस्कारसंतानस्य द्रढीयसी प्रौढी येन प्रत्यक्षपरोक्षयोस्तन्वीक्षणं प्रति चक्षुषी न विशेषमीषदपि दर्शयतः। (आत्मानं प्रति) किं च भोः।
नेत्रद्वयं विमिषदुन्मिषदप्यदो मे संस्कारबद्धघटनामवलोकते ताम् । तब्रूहि मे हृदय यत्स्वदतेत्र तुभ्यमुन्मीलयामि यदि वा विनिमीलयामि ॥ ३२ ॥