________________
तृतीयोऽङ्कः।
विदूषकः-भो वअस्स किं अज्ज सो एव्व गंगातीरउत्तंतो हिअए परिवत्तदि । जदो चिंताभरणिप्पंदसव्वंगो णिव्वादस्थिमिदो विअ साअरो णिच्छलं लच्छिसि ।
नंद्यावर्तः–आर्य सौधातके साधु लक्षितम् । तथाहि--
कृत्वा दक्षिणपादजानुशिखरे सव्येतरं कर्बुरं हस्तेनासनहेमपीठमधुनावष्टभ्य वामेन च । अर्धस्रस्तपुट विलोचनयुगं न्यस्यन् पुरो निश्चलं वारंवारमसौ विनिश्वसति च स्थूलायतं निस्सह ॥ ३३ ॥ राजा-( सवैलक्ष्यं ) सखे नंद्यावर्त वयस्य सौधातके किं ब्रूथ । नंद्यावर्तः–देव न किमपि, इदं तु विज्ञाप्यते।
स्वयमवरिष्ट परितो या त्वां नेत्रोत्पलस्त्रजैव पुरा ।
तस्याः स्वयंवरोऽयं पुनरुक्तो लोकव्यक्त्यर्थम् ॥ ३४ ॥ राजा-अथ कियव्यवधानमस्य स्वयंबरयात्रासमयस्य । विदूषकः-णं अत्तहोदीए कासीराअउत्तीए आअमणं । नंद्यावर्तः–(पुरो निर्दिश्य ) नन्वियं प्रविष्टवात्रभवती काशीराजपुत्री।
राजा-(सोच्छासमात्मगतं ) कथं प्रविष्टैव । (निर्वर्ण्य ) इयं हि:सा काशिपतेस्तनूजा स्वयंवरस्थानसभामुपैति । सुलोचना दीर्घविलोचनाभिः पुरांगनाभिस्सह निम्ननाभिः॥३५॥
(ततः प्रविशति यथानिर्दिष्टा सुलोचना नवमालिका प्रतीहारश्च ) प्रतीहारः-इत इतो भर्तृदारिका ( सर्वे यथोचितं परिकामंति)।
१. भो वयस्य किमद्य स एव गंगातीरवृत्तांतो हृदये परिवर्तते यतश्चिंताभरनिष्पंदसौगो निर्वातस्तिमित इव सागरो निश्चलं लक्ष्यसे । २ ननु अत्रभवत्याः काशीराजपुत्र्या आगमनं ।