________________
विक्रांतकौरवे
अहो महाराजस्य सर्वातिशायिनी प्रज्ञा यदुपज्ञमियं प्रज्ञावतामगर्हणीया वधूवरसमाराधनलब्धस्तोत्रा स्वयंवरयात्रा ।
५८
पिता वा माता वा भवतु स वरस्तादृगथवा कुमारी तच्छंदं निभृतमवगच्छेदिति तु यत् । तदप्येषा दत्तिर्लघयति यदस्या रमयितुगुणं वा दोषं वा स्वरुचिमनुचक्षुर्विमृशति ॥ ३६ ॥
सुलोचना - ( अपवार्य) सहि सच्चं एव्व तं जं तुए गंगातीरे विलंबतस्स बह्मणस्स मुहादो किंपि सुदंति ।
नवमालिका - किं अण्णा हि तुह मए भणिदं आसि ।
सुलोचना - सहि विसरिदं खु तं पुणोवि एक्कवारं भणाहि । नवमालिका - ( सस्मितं ) विर्सेरिदं वा होदु पुणोवि एसा भणामि ।
सो जयोत्ति विदिओ कुरुराअउत्तो विस्संभणिज्जरसिओ विणयक्कधामो । कामो सअंकवणाण जणस्स कंतो संतोसपूदहिअओ समरेक्कमलो ॥ ३७ ॥
सुलोचना - सैंहि तंवि खु तेण एव्व भणिदं इमं चेअ कज्जं उद्दिसिअ सो जणो एत्थ आअदोत्ति ।
१ सखि सत्यमेव तत् यत्त्वया गंगातीरे विलंबतो ब्राह्मणस्य मुखात् किमपि श्रुतमिति । २ किमन्यथा हि तव मया भणितमासीत् । ३ सखि विस्मृतं खलु तत् पुनरप्येकवारं भण । ४ विस्मृतं वा भवतु पुनरप्येषा भणामि । ५ एषो जय इंति विदितः कुरुराजपुत्रो विसंभणीयरसिको विनयैकधामा । कामो शशांकवदनानां जनस्य कांतः संतोषपूतहृदयस्स मैर कमल्लः ॥ ६ सखि तदपि खलु तेनैव भणितमिदमेव कार्यमुद्दिश्य स जनोऽत्रायात इति ।