________________
तृतीयोऽङ्कः।
५९
नवमालिका-जेणे में पत्तिआअसि । इदएव्व दक्खसि । प्रतीहारः-प्रविष्टाः स्मः स्वयंवरसभां (परितोऽवलोक्य)
एकत्र विद्याधरराजमुख्यैरन्यत्र भूपालकुलप्रकाण्डैः। इयं सभा संप्रति सेव्यमाना व्यनक्ति कामप्यपरामभिख्यां ॥३८॥ अपि च मन्ये । दर्शयंति निजामृद्धि प्रतिराजमिहार्पिताम् ।
स्वयं भगवती लक्ष्मीः श्लाघते जगति धुवं ॥ ३९ ॥ (निर्वर्ण्य ) अये परिमितोदारपरिवारता महीपतिनामाविर्भावयति वैभव विभवस्य।
पुनः । वारस्त्रीहस्तधूतो हसति सितरुजां चामराणां समूहो हंसान प्रावृप्रवासप्रमुदितमनसः स्वैरमुड्डीयमानान् । लीलामालेढिमेघध्वनिजनितमदं नृत्यतां बर्हिणां च चंचन्मायूरपिच्छव्यजनपरिकरः पार्श्वतो धूयमानः॥४०॥ कथमिदानीमकंपमानसुतासंनिधानमभिद्यमानविभ्रमभंगी विडंबयति कामिलोकं कुसुमधन्वा । भवतु प्रक्रांतमेवोपक्रमामहे । (विलोक्य). कथमसौ सार्द्रगंधं यावदेनं प्रथमतो दर्शयामि । (उपमृत्य)
फणिनामधिपेन यो वितीर्ण
विजयार्धस्य भुनक्ति दक्षिणार्ध । १. येन मां प्रत्यायसि । अत्रैव द्रक्ष्यसि ।
-
-