________________
विक्रांतकौरवे
रथनूपुरचक्रवालनामा प्रथिता यस्य चकास्ति राजधानी ॥ ४१ ॥ प्रणम्रविद्याधरमौलिमालिका मणिप्रभाले प्रमिलनखार्चिषः। प्रियात्मजस्तस्य जगदृशां प्रियो
नमेरसौ मेरुसमानगौरवः ॥४२॥ नवमालिका-कंह एस चक्कवट्टिणो महाराअभरहस्स अग्गमहिसीए सुभद्दाए जेठभादअस्स सअलविज्जाहरचूडामणीए महाराअणमिए सविसेसपरक्कमतुलिदणिअजणओ तणओ । प्रतीहारः-( सुलोचनां प्रति ) किमस्ति ते चेतसि शश्वदुच्छ्सनमेरुसौरभ्यसुगंधिसीमसु।
विहर्तुमिच्छा गुणिना गुणप्रिये .. सहामुना मेरुवनांतभूमिषु ॥ ४३ ॥
(विभाव्य आत्मगतम् ) कथं परांचति वास्याश्चेतः । भवत्वपर्यनुयोज्याश्चित्तवृत्तयः भवत्वन्यतो दर्शयामि । ( परिक्रम्य दृष्ट्वा च ) कथमसावौत्तरा| विद्याधरकुमारः सुनमिः। योसौविमोचयंत्यामपि वारवध्वां स्वयं च पर्यस्तविलोचनान्तः । विमोचयत्यंगदकोटिदष्टं
स विभ्रमं चामरबालकाग्रं ॥ ४४ ॥ . १ कथमेष चक्रवर्तिनो महाराजभरतस्याप्रमहिष्याः सुभद्राया ज्येष्ठधातुः सकलीवद्याधरचूडामणेमहाराजनमेः सविशेषपराक्रमतुलितनिजजनकस्तनयः ।