________________
तृतीयोऽङ्कः।
( उपसृत्य) विनमितरिपुयक्षः पक्षपाती गुणानां विनमिरिति विनेता दुर्विनीताशयानाम् । भुजगपतिवितीर्णामुत्तरां राजतानेरवति सुकृतावान्यः श्रेणिमेणांकसौम्यः॥४५॥
अलकामधितिष्ठतः पुरी त्रिजगत्ख्यातविभूतिवैभवाम् । अयमप्रतिमयविक्रम
स्तनयस्तस्य नयैककोविदः॥४६॥ नवमालिका–कहें एस अ मार बाहुबलिणो माउलउत्तस्स महारा--- अविणमिए णिम्मलचरित्तओ पुत्तओ। प्रतीहारः--
मंदमंदविहरत्ववनानि स्वैरमुत्तरकुरूपवनानि । सोवितुं किममुनास्ति मनस्ते
पारिजातसुमनःसुरभीणि ॥४७॥ (विभाव्य आत्मगतम् ) कथमुदास्त इव । भवत्वन्यतो दर्शयामि (परिक्रम्यावलोक्य च ) कथं विद्याधरकुमारो लोहार्गलाधिपतिर्मेघप्रभः । योसौ--
समुत्पतत्केसरधूलिलुब्धामलुब्धपातामुपरि भ्रमंतीं । अन्वेति दृष्टया भ्रमरी सलीलं
लीलासरोजं भ्रमयन् कराभ्यां ॥४८॥ १. कथमेष च मारः बाहुबलेर्मातुलपुत्रस्य महाराजविनमर्निर्मलचरितः पुत्रः ।