________________
विक्रांतकौरवे
( उपमृत्य)
यस्याग्रतः संयति संपतंतः क्षणेन निर्वासितशौर्यसाराः। मेघप्रभावा रिपवो भवंति
मेघप्रभो नाम स एष धीरः॥४९॥ नवमालिका–केहं एस विज्जाहरलोअसलाहणिज्जसोहग्गसंभाविदो असंभाविददोसलेसो लोहग्गलेस्सो । प्रतीहारः
अनेन सार्ध सुरलोकवातव्याधूतसंतानकसौरभाणि । कल्याणि सेवस्व सुरस्रवंती
तीरांतमंदारलतागृहाणि ॥५०॥ (विभाव्य आत्मगत ) कथमिहापि सैव रीतिः । भवतु भूपालानिदानी दर्शयामः । ( परिक्रम्य विलोक्य च ) कथमसौ साधुविधानकप्रवतितनयश्चक्रवर्तितनयः शरत्कौमुदीविशदोदककीर्तिरर्ककीर्तिः ।
योसौ
दीव्यच्छलाकापरिवर्तनेन सविभ्रमोदंचितपूर्वकायः। स्रस्तं प्रकोष्ठात्कटकं करेण
सुश्लिष्टमारोपयतीतरेण ॥ ५१ ॥ ( उपसृत्य)
यस्मै कृतांजलिरदाद्विजयाध एव
__ सेनानिनाथचलितः स्वयमभ्युपेत्य । , कथं एष विद्याधरलोकश्लाघनीयसौभाग्यसभावितोऽसंभावितदोषलेशो लोहार्गलेशः।