________________
तृतीयोऽङ्कः।
एकातपत्रमवते भरतं समस्तं
सिंहासनं च चमरद्वयमातपत्रम्॥५२॥ अपि चयेनैक एव विशिखश्चतसृष्वपि दिक्षु दिग्जये मुक्तः। एकत्र तुषाराद्रावितरत्र पपात पाथसां पत्यौ ॥ ५३॥
चक्रेण निष्प्रतिघनिर्जितवैरिराजचक्रेण सार्धमतिमानुषविक्रमेण । वर्णाश्रमस्थितिगुरोर्भरतश्वरस्य
तस्यैष सूनुरुदपादि पुरः प्रवीरः ॥ ५४॥ किंच
हिमाचलांभोनिलयावधेर्भुवस्स चक्रवर्ती युवराज एष तु । समस्तदेवांचितपादपंकजः
पितामहश्चास्य पुनः पितामहः ॥ ५५ ॥ नवमालिका-कहं एस आउज्झाउरिवल्लहस्स चक्कवाट्टिणो महाराअभरहस्स पढमतणओ अप्पडिहदसत्ती जुवराअ अक्ककित्ती। प्रतीहारः
समुच्छ्रसन्मदुरसारसालसं झरीस्सरय्वाः मृदुसारसारमैः । विगाह्य नीहारजडो निषेवतां
रहोविहारेषु युवां समीरणः॥ ५६ ॥ १. कथमेष अयोध्यापुरीवल्लभस्य महाराजभरतस्य प्रथमतनयोऽप्रतिहतशकिर्युवराजोऽर्ककीर्तिः।