________________
६४
.
विक्रांतकौरवे
कथमत्राप्यनुत्सुकेव । अलक्षणो विषमेषुव्यापारः । भवत्वग्रतो दर्शयामि । (परिक्रम्यावलोक्य च ) कथमसौ बलिनो बाहुबलिनः पौदनाधिपतेः कुमारो महाबली। योसौ
अंगुष्ठमुद्राप्तिपद्मरागज्योतिःशलाकाभिरनाकुलाक्षः । आरंजयत्यंगुलिसारणेन
स्मेराणि मुक्तागुणमौक्तिकानि ॥ ५७॥ . (उपसृत्य )
क्षोणीमा लवणोदमा हिमवतो रूप्याद्रिणा गंगया सिंध्वा चापगया पयोध्ववदिभिः षोढा विभक्तामिमां । यत्स्वीकृत्य निरर्गलं विजयते तत्संयुगे चोदितं चक्रं चक्रधरस्य वक्रितमभूद्यस्मिनू मनागू द्वेषिाण ॥५८॥
रश्च । तृणायेदं मत्वा सकलमपि साम्राज्यविभवं सबीभत्सं कृस्त्नं विषयसुखमुत्सृज्य विरसम् । तपस्तप्त्वा कर्मास्रवमाप दहन निर्जरयितुं क्षणाबद्धं चैनः शिवपदकवाट व्यघटयत् ॥ ५९॥ तस्यैष तनयो यूनां विशिष्टः पौदनेयकः।
अनेन रममाणा च युवतीनां विशिष्यते ॥६०॥ नवमालिका-केहं एस बाहुबलिणंदणो उक्खादपडिपक्खमाणसंकुलओ इक्खाउवंसेक्कभूसणं अक्खलिदणिअपरक्कमतुलिदबाहुबली कुमारमहाबली।
१. कथमेष बाहुबलिनन्दन उत्खातप्रतिपक्षमानशंकुः इक्ष्वाकुवंशैकभूषणमस्खलितनिजपराक्रमतुलितबाहुबली कुमारमहाबली ।