________________
प्रतीहारः
तृतीयोऽङ्कः ।
सुरतश्रमांबुकणसौरभो हुरः व्यजनानिलः कुमुदगंधबंधुरः । मुदमातनोतु भवतोस्समीरणः प्लुतनातरंगपरिवर्तशीतलः ॥ ६१ ॥
( विभाव्य स्वगतं ) कथमिहाप्यसौ कुंठोत्कंठैव । भवत्वन्यतो दर्शयामि ( परिक्रम्यावलोक्य च ) कथमसौ उज्जयिनीपतेरुग्रान्वयप्राग्रहरस्य मध्यमलोकमनोः महाराजमघोनः प्रियतनयः कुमारजयंतः ।
योसौ
निर्दिश्य किंचित्कटकामुखेन हस्तेन तेनैव पुनः सहेलम् । नीतेन सूचीमुखतां निहंति स्तंभं पुरोवर्तिनमर्धवीट्याः ॥ ६२ ॥
उपसृत्य )
६५
आज्ञाक्षराण्येव सुमुखानि पृथ्वीमवंति यस्योजित शासनस्य । अवंतिषु प्राप्तललामशोभामलंकरोत्युज्जयिनीं पुरीं यः ॥ ६३ ॥ महीपतेस्तस्य महीयते गुणैरसौ कुमारस्तनयस्तनूदरि । व्रजात्ररागप्रगुणा गुणोत्करा गुणज्ञगोष्ठी श्रवणावंतसताम् ॥ ६४ ॥ नवमालिका – कहें एस करसववंसुत्तंसो दंसिदुद्दाममणोहरदेहकंतिपन्भारो पडिपक्खराअचक्कं जअंतो कुमारजअंतो ।
१. कथमेष काश्यपवंशोत्तंसः दर्शितोद्दाममनोहरदेहकांतिप्राग्ारः प्रतिपक्षराजचक्रं जयन् कुमारजयंतः ।
५