________________
तृतीयोऽङ्कः ।
जगन्नयनचकोरकाणां चंद्रमत्या दुहिता रतिचंद्रिकानाम मत्तकाशिनी प्रकाशितकाशीराजपुरी यशोवैभवा स्वभवनप्रांतवर्तिनः शिक्षागृहात्संगीतयोग्या जनितश्रमरमणीया निर्गच्छति
1
किंच |
यासौ
आबद्धचंडातक पीड्यमान - मध्यस्फुटालक्ष्यगभीरनाभिः । प्रस्वेदसुस्निग्धशरीरयष्टिर्विभाति विभ्रांतविशालदृष्टिः ॥ १७ ॥
मुहुर्वृत्ताभ्यासव्यतिकरचलन्मौक्तिकलता समुन्मृष्टाच्छाच्छस्तनमलयजालेपरुचिरा । चिरायासश्राम्यच्चरणशिथिलन्यासमधुरा
क्षणन्मंजीरेयं मदयति मनो रंजयति च ॥ १८ ॥
५१
यावदस्याः सौवस्तिको भवामि । ( उपसृत्य ) स्वस्ति भवत्यै । सुंदरि कृतं नृत्ताय ताभ्यामंजलिबंधेन ।
( सस्मितं )
उन्मार्जितेपि बहुले हरिचंदनेस्मिन् प्रव्यक्तमेव निबिडस्तनि दृश्यमानः ।
लाक्षारसेन रचितः कुंचकुंभपीठे धन्यस्य कस्य वदनेन विशेषकोऽयम् ॥ १९ ॥
कथमदृष्टोत्तरा सत्वरपरावर्तननर्तितस्तनकलशा सविलासविनिहितकरतलस्थगितस्तनतटोत्संगा सलीलचलनवाचालित मेखलाकलापा सवैकक्ष्यसाचीकृतचिकुरलोचना सविभ्रमांकुरितलज्जास्मितविकसितकपोलतला तूर्णं पदमुखरनूपुरमसौ स्वभवनद्वार एवांतरिता । चिरादवात्यमुन्मेषेण फलमीक्षणाभ्यां । भवतु साधयामस्तावत् ( परिक्रम्य ) कथमसावशोक तिलकायास्सुता केली