________________
५०
विक्रांतकौरवे
सा संप्रति चंडालिकेव दूरे स्पर्शस्यानिसर्गाश्लीलमुखराया हृदय इवात्मनो बहिर्द्वारे भवने को वावसरमेकं लगति ।
तथाहि
निष्कासयत्येकत एकमेषा प्रवेशयत्यन्यमथान्यतश्च । पतिं सुतायाः कपटोत्कटाभिः स्वांशावतारैरिव कुट्टिनीभिः ॥ १५ ॥
इत्थं च पुनः समर्थये ।
निर्दोषा भणितिर्निसर्गमधुरा निर्मत्सरा शेमुषी निष्पापा नृपता जगद्बहुमता गीतिश्च निर्वैकृता । निर्दोषा चरितस्थितिर्गुणवती वेश्या च निर्मातृका यत्सत्यं बहुनापि भाग्यवसुना लभ्येत वा नैव वा ॥ १६ ॥ सर्वमेतदास्तां । इदं तु पुनरत्र धुनोति । यदद्याप्यसौ तरुणीमन्या झरखर्जूरकमवरुद्धवती न जातूज्झति स्वयं वृषस्या । कथमाह्वयत्यपि । हंत ध्वस्तोस्मि । भवतु ( उपसृत्य ) किमपि व्याजं कृत्वा गमिष्यामि । ( हास्यं निरुंधन् ) अथवा व्याजीकरणमपि नास्यां अर्थक्रियां प्रवर्तयति । ( उपसृत्य ) वासु निषादवति सुभगा भव । अथ वयस्यखर्जूरकोप्यत्र । किं ब्रबीषि । न जानीम एव त्वमिति । हंत साधुकृतं खर्जूरकेण किं भवत्या अपि जर्झरवादनमेव तस्मै स्वदते एषाहमर्धचंद्रकं कृत्वा तमानेव्यामि । मा कदाचिदपि भूर्निषादवती विषादवतां । किमाह भवती । कुतो मे विषादः । यदा भाव एवैवं वर्तते इति । वासु तदयमद्यापृच्छे । किं ब्रवीषि कदा पुनर्भावो द्रष्टव्यः । न खल्विहागत्य युक्तं मित्रदुहितरमसंभाव्य गंतुमिति । वासु स खर्जूरकमयैव मां द्रक्ष्यसि किमाह भवती । तेन हि गम्यतामिति । साधयामस्तावत् । ( परिक्रम्यावलोक्य च ) इयं खलु जरस्पिशा - चिकादर्शनप्रायश्चित्तं लोचनाभ्यामियं हि वैजयंती मकरकेतोरवलेपस्तारुण्यस्य पुण्यं लावण्यस्य भाग्यं सौभाग्यस्य माणिक्यं गाणिक्यस्य चंद्रिका