________________
तृतीयोऽङ्कः।
४९
चपलस्येव बालकस्यांतर्गृहं निरुध्यमानस्य कुतस्ते प्रियसुहृदः सौख्यमिति । अलं कथांतरव्याजेनात्मनः सौभाग्यकतया । किमाह भवती । कंपितास्मि अलंक्रियतामयं शय्यार्ध इति । वासु सुलोचनास्वयंवरयात्रां प्रत्यवेक्ष्योपावर्तिष्ये । तदलमतियंत्रणया । किमाह भवान् । दृश्यतां भवता स्वयंवरयात्रा । अहं तु पुनस्त्वन्मुखाच्छ्रोष्यामीति । ( सस्मितं ) अहो चापलमत्र भवतः । यद्वा किं वदंती श्रवणदानमपि गृहस्थूणस्यैवादृष्टबहिर्गृहस्य सख्युनील्पीयः । ( सस्मितं ) । अथवा प्रवर्तयतु तवापि स्वयंवरयात्रां चंद्रसेना । कथं हासोत्तरमसौ पत्युरुरसि पतिता । भवतु साधयामस्तावत् । ( परिक्रम्यावलोक्य च) कथमसौ जरत्कूपिका वाराणस्याः प्रदीपच्छाया । मदनभानोरकालपलितं तरुणानां सिनीवाली सुरतचंद्रातपस्य जंगमचंचावेशवाटस्य संमार्जनी स्त्रैणस्य विडंबयंती विलासिनी विभ्रमान्निजोदवसितालिंदवितर्दिकां दूषयंती भोगवत्या माता निषादवती । या खलुयतस्ततस्सूतविशीर्णसूत्रा पुराणकथेव शिरालदेहा।
अमुंचती मंडनमंगनार्ह चलत्यचारु प्रचलाकिकेव ॥१३॥ अपि चास्याः
मूले वालयवप्ररोहधवलान् लब्धस्वभावांस्ततो मांजिष्ठप्रसरच्छवीनथ चरत्ककोलिनालारुणान । पश्चान्मुग्धशिरीषकेसररुचः प्रांते च काकच्छद
च्छायान्मूनि कचान करात्यपसरन्नीलीरसो भावितः॥१४॥ हंत भोः, अनया खल्वयथार्थनामा भोगवती जाता येन सा भूताविष्टेव सभयं परिहीयते । ग्रहग्रहीतेव न विश्वस्यते विषदूषितेव वापिका नास्वायते । विषधराधिष्ठिताचंदनलता नोपसेव्यते । किंच बहुना चंडालिका तु