SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४८ . विक्रांतकौरवे गाणकाकुलधर्मेण । यदनयोद्वपदयोरिव वर्तते परस्परार्थसंक्रमः । अतश्चैतदेवं । यतः न बहुप्रेयसीन पुंसः कामिन्यो बहु मन्वते । पुंमांसो बहु मन्यते बहुपुंसीर्न योषितः ॥ १० ॥ (पुनः कर्ण दत्वा ) कथमिहैव भवनचंद्रशालायामपावृत्य गवाक्षं पत्या सह वीक्षमाणा चंद्रसेनेव व्याहरति । इयं खलु अश्रांतकांतसुरतक्लमनूतनोत्थस्वेदोदबिंदुविसरार्द्रकपोलपालिः। मा माह्वयत्यलसविह्वलजिह्मदृष्टिनिश्वासगद्गदगलत्प्रसरर्वचाोभः ॥ ११ ॥ तल्पस्थितेयमुपधानविशिष्टहस्ता न्यस्तानना पुलकिनी प्रियभर्तुरंसे । आस्रस्तकेशरचनांतरितावतंसा धत्तेवधानमिह मत्प्रतिपालनायाम् ॥ १२॥ भवतु संभाव्यैव गच्छामि । ( उपसृत्य ) अजय्यमस्तु युवयोस्संगतं । किं ब्रूथ । अपि कुशलं भावस्येति । कथममुना कुशलपरिप्रश्नेनोद्घटितो मे चिरादनवलोकनातिक्रमः । सखायौ मास्म मामुपालभेथां अपराध्यत्र सुलोचनास्वयंवरयात्रा । यद्विप्रकृष्टसंनिविष्टराजांतरशिबिरनिरीक्षणकौतुकेन परिभ्रमतां तृतीयोयं दिवसः । किमाहतुः । तेन हि क्षांतमिति । एष इदानीं निष्कृतनिजातिक्रमदुष्कर्मा महाकविप्रबंधस्येव नित्यप्रवृत्तसुखशय्यस्यास्य मिथुनस्य सौखशायिको भवामि । किमाह भवती चंक्रमण
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy