________________
द्वितीयोऽङ्कः।
राजा-(आत्मगतं ) अपि नाम सा भवेत् । (प्रकाशं ) यावदमुना प्रलंबविटपेनाश्मंतकपादपेनातरितः पश्यामि ( तथा दृष्ट्वा सहर्ष ) वयस्य दिष्टया वर्धसे । सैव खल्वियं ते प्रियसखी। विदूषकः-( दृष्ट्वा ) केहं एसा तत्तहोदी कासीराअउत्ती। राजा-(निर्वर्ण्य सोत्कंठं ) इयं सा लावण्यामृतसरिति यस्यां मम दृशौ निरुच्छासं मग्ने पदमपि लभे तेन तरितुं । स्थिरीभूतं यस्यां प्रकृतितरलं संप्रति मनो।
यया कामः कामं हृदयमिदमंतर्व्यथयति ॥ २५ ॥ नवमालिका-महाभागो खु सो जणो जो एव्वं णाम पिअसहीए हिअए सदापि अ वट्टइ।
सुलोचना-( सलज्जं ) सहिं कीस में वाहेहि । साविदा खु से मए जइ मे पुणोवि किंवि असंबंधं जंपिहिस्सि । विदूषकः-वस्स तुह एव्व उत्तंतो वट्टदित्ति तक्कोमि । राजा-अहो स्पृहणीयः कन्यकानां व्रीडाव्यतिकरः।। तथाहिनिरुंधाना कूटं किमपि हृदये वस्तु लिखितं तदस्वस्थैर्भावैः पुनरनुमिमानां प्रियसखीं। सलज्जं जल्पंती परिमृदितशुष्काक्षरमसौ विलक्षस्मेरास्या कथमपि तदस्याः स्फुटयति ॥ २६ ॥ (पुनर्निर्वर्ण्य) अहो सर्वावस्थासु कामनीयकमस्याः । . १. कथमेषा तत्रभवती काशीराजपुत्री । २. महाभागः खलु स जनः य एवं नाम प्रियसख्या हृदये सदापि च वर्तते। ३. सखि कस्मान्मां बाधसे । शापिता खल्वसि मया यदि मां पुनरपि किमप्यसंबंधं जल्पसि ४. वयस्य तवैव वृत्तातो वर्तते इति तर्कयामि।