________________
विक्रांतकौरवे
इदं हिजरठरविमयूखतापताम्यत्
किसलयदुर्बलकोमलांगयष्टयां । चकितहरिणशावलोचनाया
मभिरमते हृदयं सुलोचनायाम् ॥ २७ ॥ नवमालिका-को वा एत्थ असंबंधं मंतेदि सुसंबंध चेअ खु एदं भविस्सदि।
सुलोचना-(स्वगतं ) अमोहेवादिणी होहि । . राजा-इयं खल्वखंडितपराक्रमस्य मकरकेतोरसंहार्यशौर्यहेतुः सुमहानवष्टंभः (आकाशे लक्ष्यं बद्धा) अयि भोः कुसुमधन्वन् वृथा कत्थसे इदमुपालभ्यसे। यत्रैते स्फुरतः प्रमथ्य विनयं दीर्घे भ्रवौ सुभ्रुवो__ यत्रैते हरतः प्रसह्य तरले धैर्यग्रहं लोचने । यत्रैषास्ति विमोहनाय जगतस्तत्र स्मर श्रूयतां
कोदंडे च शरेषु च त्वयि च भोः स्यात्पौनरुक्त्यं परम् ॥२८॥ सुलोचना-(स्वगतं) अवि णाम सो जणोअज्जवि दसणसुहं देज्ज ।
नवमालिका-(विभाव्य स्वगतं) कहं एसा चिंताभरण वलिअं खिज्जइ होदु जाव इमाए हिअअं अक्खिवामि । (प्रकाशं ) पिसहि एसा खु सह
१. का वात्रासंबंधं मंत्रयते सुसंबंधमेव खलु एतद् भविष्यति । २. अमोघवादिनी भव । ३. अपि नाम स जनः अद्यापि दर्शनसुखं दास्यति । ४. कथमेषा चिंताभरेण बलवत् खिद्यते भवतु तावदस्या हृदयमाक्षिपामि । ५. प्रियसाखि एषा खलु सह समुच्चरत्कुररकारंडवकेलिकलहकलकलगंभीरेण शब्दापयतीव मारुतेन भागीरथी। तस्मादुत्तिष्ठ तावत् यावत् सरलिका आगमिष्यति तावन्मंदाकिनी पश्यावः ।