________________
द्वितीयोऽतः।
सौविदल्लः-तेण हि सुणिज्जउ एण्हिं खु सो। चित्त धरेइ करुणं धरणिं भुअम्मि सीसम्मि पाअजुअलं परमेसरस्स । जिल्लुत्तदुक्खविअणं सअलंपि लोअं
अत्ताणआप विअ रक्खइ अप्पमत्तो ॥९॥ प्रतीहारः-तेन हि पुत्रवतामप्यग्रणीमहाराजसोमप्रभः।(पुरो विलोक्य)। इयं खलुसमुच्चरज्जलशकुंतमंथरारावहारिणा समीरणेन लक्ष्यते समासीदंती सुरस्रवंती। सौविदल्लः— केहं समासण्णा जाह्नवी ।
(उभौ परिक्रम्य दृष्ट्वा च ) प्रतीहारः-इयं हि सा गंगातरंगेण विधारयंती सरोजजालं चलहसमालम् । उल्लासिहारच्छविहारितोया वाराणसी सीमविहारिपूरा ॥ १० ॥ किं च ।
मदकलसारसलीला कल्हारविसरणमंजुलसमीरा । तामरससरसकेसर
विसराकुलसलिलकल्लोला ॥ ११ ॥ इतो मया गंगातीर्थाभिरक्षणाय गंतव्यम् ।
तेन हि श्रूयतामिदानी खलु सः । “चित्ते धरति करुणां धरणी भुजयोः शीर्षे पादयुगलं परमेश्वरस्य । निर्लप्तदुःखवेदनं सकलमपि लोकं आत्मानमपीव रक्षत्यप्रमत्तः । २ कथं समासन्ना जान्हवी ।