SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे सौधान्युदस्तमणितोरणकोणनद्धडोलायमाननववंदनमालिकानि ॥ ४ ॥ यावदिदानीं स्वयंवरयात्राकृते समापततो राजन्यस्यावेक्षणेन चक्षुषी संभावयामः । ( परिक्रम्याग्रतो विलोक्य ) । कथमसौ विलासबाह्यालिर्मकरध्वजस्य संगीतशालारतेर्विक्रिया पण्यस्त्रीरत्नानामुत्पत्तिभवनं शृंगारस्य नाभिगृहं लीलाया निर्माणभूमिर्विभ्रमाणामाकर्षणवाडेशं तरुणजनमनोमीनानामवस्कंदपरबलमिंद्रियग्रामस्य विनयमुखपटाक्षेपणरंगो विनीतजनवारणानां स्वगुणविकत्थनस्थानं षीद्गानां वैदग्ध्यविनिमयहट्टछेकानां करालगोलव्यतिकरपितृवनं वेश्याजनमातृजरत् पितृपिशाचिकानां पुराणा वामलूरुर्गणिकादारिकाभुजंगीनामपूर्वमद्वैतदर्शनं मायाप्रपंचस्य पारिपंथिको निश्रेयसपथपान्थानां मनोरथमात्रास्वाद्यो दुर्गतानां द्रविणवतां सदाप्यदत्तकवाटो वेशवाटः किंच | अविस्स्रंभस्निग्धं वचनमवलेह्यं श्रवणयोः परिष्वंगस्संगव्यसनमपहस्त्येव मधुरः । ः सद्भावात्सपरमुपचारश्च रुचिर स्सहैवोद्भिन्नानि स्तनमुकुल कैर्यत्र सुदृशाम् ॥ ५ ॥ ऋतेऽन्तः ( स्पर्श रूपयित्वा ) अहो वेशवीथीविहाररसिकस्य कोप्यतिशायी सौरभसंभारः समीरणस्य । अत्र हि प्रौढांगनारुचिरकंठधनांगरागः कस्तूरिकापरिमलस्पृहणीयगंधः । सौभाग्यगर्वभरमन्थरयेव गत्या चेतः प्रलोभयति नस्तरणो नभस्वान् ॥ ६ ॥
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy