________________
विक्रांतकौरवे
रत्नमाली
विमतमथनक्रोधाविष्टं विशंकटकंकटस्थपुटघटितस्फीतोरस्कं गृहीतशरासनम् । शरधिपरिणद्धां सप्रांतं कृतांतभयंकरं
वपुरिदमहो श्लाघ्यं वश्यां करोत जयश्रियम् ॥५९॥ मंदारमाला-हेद्धि हद्धि । णिवडपसरणिरंतरओगाहिअअउव्वलहिअमवाउरा सारिच्छाहिं संछण्णो कुमारेण कोरवसेणावइस्स वारणो वाणधाराधोरणीहिं। __ रत्नमाली-अहो प्रागल्भ्यमस्य करिणः ।
निबिडमभिपतंतीं बाणवृष्टिं प्रतिच्छन् सरभसमुपपद्य क्रोधनिबंधरौद्रः। . सरथितुरगसूतं शुंडयोत्क्षिप्य तूलो
च्चयमिव रथमेषः क्षिप्तवान् वारणेद्रः ।। ६० ॥ मंथरकः-अहों अच्चरं एसो खु सहसत्तिरहादो लहु पडिय विवत्तो धणुलहिं अवहव्विअ सुसंठिदो महीवहे कुमारो।
मंदारमाला--दिौडआ अक्खदसरीरो कुमारो।
मंदरः-कथमिरंमदद्विरदनोपि सर्वागिसंगिसायकप्रोतशरीरः प्रहारमूछितः प्रसार्य पूर्वकायं भूमौ निषण्णः । : मंथरक-कहं इमो दिण्णरत्तचंदणथासअभूसिदंगो ओदिण्णो खंदादो सिंधुरस्स।
१. हा धिक् हा धिक् । निविडप्रसरनिरंतरावगहितापूर्वयष्टियमवागुरासदृक्षाभिः संछन्नः कुमारेण कौरवसेनापतेरिणो वाणधोरणीभिः । २. अहो आश्चर्यमेष खलु सह शक्तिः रथाल्लघु पतित्वा विवलान् धनुर्यष्टिमवष्टभ्य सुसंस्थिलो महीपृष्ठे कुमारः। ३ दिष्ट्या अक्षतशरीरः कुमारः। ४ कथमेष उदीर्णरक्तचंदनस्थासकभाषितांगोऽवतीर्णः स्कंधात् सिंधुरस्य । -