SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चतुर्थाऽङ्कः रत्नमाली - - द्वयोरपि वाहनभंग इति कृतमेतत् । मंदर: सप्तच्छदामोदसखं मदांभः शिलीमुखाः कामवपुः परासोः । तानद्य निर्धाट्य कटांतलग्नान् शिलीमुखास्तीक्ष्णमुखाः पिवंति ॥ ६१ ॥ रत्नमाली - अथ परस्परमयुंजाते सवयस्कौ राजकुमारौ । मंदरः - देव ! कावेतौ प्रजविवाजिष्पृष्ठाधिरूढौ समरसंमर्ददुर्दमौ ९५ अर्क कीर्त्यवरजस्तुरगस्थः स्थैर्यशौर्यसदृशं तुरगस्थम् । संजयंतमजितंजय एनं कौरवानुजमसावभियुक्ते ॥ ६२ ॥ रत्नमाली - न परस्परं हीयते रणकर्माणि कुमारौ । मंदरः – देव इतः पश्यतामन्यदाश्चर्यम् । अन्योन्याघातभग्नस्थिररदनमुखौ संसृजत्पूर्वकायावष्टंभस्तब्धवेगौ समतुलितबलौ यंतॄणासक्तहस्तौ । मर्माविच्छस्त्रवक्रक्षतिमथिततनू प्राप्य विक्रांतिकाष्ठाariat दंतिनौ द्वौ कथमनिपततौ तिष्ठतोऽमुहूर्तम् ॥ ६३ ॥ इतः पश्य । मर्मसु हता अपि शूराः प्रायोपगमन मनिच्छवः केचित् । धीराः स्वर्गं वीराः प्रापन् प्रायोपगमनेन ॥ ६४ ॥ मंदारमाला – हण्डे मंदरअ । निरंतरुप्पइअखुरप्पकडप्पपसप्पणगुत्तण. १. सखे मंदरक निरंतरोप्ततितखरप्रसमूहप्रसर्पदुव्यन्नभःस्थलदुः प्रेक्षोऽप्रतिहतरर मधिरथमधिरुह्यार्ककीर्तिबलं चमत्कुर्वन् किमेष कुमारजयंतः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy