________________
विक्रांतकौरवे
हस्थलदुष्पेक्खो अप्पडिहदरअं अहिरहं अहिरोहिअ अक्ककित्तिबलं चमकरतो किं एस कुमारजअंतो। मंदरः- एवम् ।
अवेहि सैन्यं द्विषतां जयंतममुं मघोनस्तनयं जयंतम् । न व्यज्यते यस्य जवादिषूणामाधानसंधानविमोक्षकालः ॥६५॥ रत्नमाली–अहो उग्रता समरकर्मण्युग्रकुलकुमारस्य ।
मंथरका-किं ऐस आणिहिदअहाविदवाणतंटसंघटखंडिदवइरिसरा सारो तिहुअणेक्कल्लरहिओ इमं अभिजुज्जतो कुमारसुकेदू ।
मंदरःअवेहि विद्वेषिभयैकहेतुममुं सुकेतुं हरिवंशकेतुम् । द्विषां करोत्याशु विलक्षतां यः
शरैः शितानामपि तच्छराणाम् ॥ ६६ ॥ रत्नमाली-मन्ये नामू परस्परस्य जेतुं प्रभवतः ।
मंदरः-इतो दृश्यतां छलबहुलं वैद्याधरं युद्धं । एष खलु लोहार्गलाधिपतिरनर्गलचोद्यमानवातमीप्रतिममहाजवतुरंगमोह्यमानमधिरूढस्यंदनमभिषेणयति विद्याधराधिराजमधिरथं सुनमिम् ।
मंदारमाला-कह एक्कदो सव्वोवि विज्जाहरलोओ एक्कदो अ एकल्ल. मेहप्पहो । हद्धि हद्धि किं एत्थ होहिइ।
१. किमेषोऽनिष्ठितप्रस्थापितवाणाग्रसंघट्टखांडतवौशिरासारस्त्रिभुवनैकरथिकः इममभियुध्यन् कुमारसुकेतुः । २. कथमेकतस्सर्वोपि विद्याधरलोक एकतश्चैको मेघप्रभः । हा धिक् हा धिक् किमत्र भविष्यति।