________________
विक्रांतकौस्वे
भूपालाः प्रति पालयंति वहवस्त्वां युद्धबद्धस्पृहाः कर्तु मानविमाननां द्रुतममी हर्तुं च ते मानिनीम् ॥ ७५ ॥
( सर्वे शृण्वंति ) कथमन्यदुपक्रांतमन्यदापतितम् । सुलोचना-( सभयं ) हु किं एत्थ सरणं । ( सविषादं ) हं कहं एत्थ हविस्सदि। विदूषकः-कहं एरिसं इमस्स णिहुरवअणं । राजा-(सकोपस्मितं ) जितकाशिता क्षत्रियडिंभानाम् । नंद्यावर्तः– ( सकोपं ) अहो अहो परुषिका क्षत्रियकीटानां । यदेवं देवेऽप्यवधीरणागर्भमुदीर्यते।
(प्रविश्य संभ्रांतः) पुरुषः—आर्य महेन्द्रदत्त युवराजहेमांगदस्त्वामाज्ञापयति। आनविता मितस्त्वरिततरं वत्सा सुलोचनेति । तेन हि इत इतो भर्तृदारिका। .
(निष्कांता सुलोचना नवमालिका प्रतीहारः पुरुषश्च । ) नंद्यावर्तः–देव युद्धाय सन्नद्धव्यम् । तदुत्थीयताम् ।
( सर्वे उत्तिष्टंति ) राजा-(सक्रोधं ) अरे रे दुर्वांतक्षत्रियकीटाः श्रृणतेमा प्रतिज्ञाम् । वक्ष प्रस्थात् क्षुरप्रप्रहतिविघटितग्रंथिबंधश्लथास्नश्रोतमस्तिष्कशक्लस्थपुहिनपिशितादुत्खननमानशंकुं ।
१. हंत किमत्र शरणं । २. हंत कथमत्र भविष्यति ।