________________
तृतीयोऽङ्कः। .
अम्हो देक्खिदुपि इमं जणं ण प्पहवम्हि ता कह कंठे मालं अमोअइस्सं । (इति सवैक्लव्यमास्ते)।
प्रतीहारः-(विभाव्य ) स्थान एव लग्नमस्याश्चेतः। नवमालिका-(सस्मितं) पिअसहि किं अण्णदो गमिस्सामो ।
( सुलोचना साभ्यसूयवैलक्ष्यं मुखं नमयति) नवमालिका-तेण हि गहूंजदु एसा सवरमाला ।
(सुलोचना सलज्जमादत्ते) नवमालिका-पिअसहि इदो एहि ।
(उभे उपसर्पतः) नवमालिका-सहि किदत्थेहि एहिं तुह मणोरहाइ ।
(इति सुलोचना हस्ताभ्यां राज्ञः स्कंधे मालामामोचयति) विदूषकः-(सहर्षे ) जेहूं पिअवअस्सो सोत्थि होदु। नंद्यावर्तः-विजयतां कौरवेश्वरः । राजा-( सहर्षमात्मगतं ) संपूर्णो मे मनोरथः ।
(नेपथ्ये)
( कलकलांतरं । ) भो भो कौरव कौरव क्षणमिमौ सौभाग्यदमियोच्छूनौ संगरभंगुरौ तव भुजौ पश्यंतु सर्वे जनाः।
१ अहो द्रष्टुमपीमं जनं न प्रभवामि तस्मात्कथं कंठे मालां च मोचयिष्ये । प्रियसखि किमन्यतो गमिष्यामः । ३ तेन हि गृह्यतामेषा स्वयंवरमाला । ४ प्रियसखि इत एहि । ५ साख कृतार्थयेदानीं तव मनोरथान् । ६ जयतु प्रियवयस्यः स्वस्ति भवतु ।