________________
विक्रांतकौरवे
गृहानभ्येताय स्वयमदित दानं भगवते प्रियभ्राता श्रेयान समुपचितनिश्रेयसरुचिः ॥ ७२ ॥
रूपेण कांत्या सहसा महिना शौर्येण दानेन पराक्रमेण ।। बिभ्रत्परां कीर्तिमनन्यलभ्यां
तस्यैष पुत्रः शमितारिसत्रः ॥ ७३॥ यो हि
करिकरपरिणाहस्थूलभारांधकारस्थगितगगनगर्भ मेघवामरौघम् । अधरितघनघोषः सिंहनादस्वरेण
व्यजयत यत एषामुष्य मेघेश्वराख्या ॥ ७४ ॥ नवमालिका-ऐसो खु सुणिम्मलकित्तिसंभारभरिदभुवणभंतरस्स राएसिणो महाराअसोमपहस्स पढमतणओ लोअलोअणपुण्णचंदो समरमुहपरम्मुहकिदवेरिणरिंदो णिअगुणामिअसोत्तणिव्वत्तिअसअलजणसोत्तरसाअणो पवित्तचरित्तपरायणो कोरवेसरो मेहेसरो । ता इमस्सिं संचारिअंतु विअसिअउप्पलदलमालकोमलाइ सिणिद्धमुद्धसरलपहमराइ कोदूहलफुल्लाविदाइ तुह लोअणाइ।
सुलोचना-(स्वगतं) कहं अइअउत्तो । (समदनाकूतम् )
१ एष खलु सुनिर्मलकीर्तिसंभारभरितभुवनाभ्यंतरस्य राजमहाराजसोमप्रभस्य प्रथमतनयो लोकलोचनपूर्णचंद्रः समरमुखपराङ्मुखीकृतवैरिनरेद्रो निजगुणामृतस्रोतनिवर्तितसकलजनश्रोत्ररसायनः 'पवित्रचरित्रपरायणः कौरवेश्वरो मेघेश्वरः । तस्मादस्मिन् संचार्येताम् । विकसितोत्पलमालाकोमले स्निग्धमुग्धसरलपक्ष्मले कौतूहलफुल्लापिते तव लोचने। २. कथमायपुत्रः ।